बसपा प्रमुखो गणतंत्र दिवसे देशवासिभ्यो वर्धापनानि अददात्
लखनऊ, 26 जनवरीमासः (हि. स.)। बहुजनसमाजपक्षस्य (बसपा) अध्यक्षा मायावती सर्वेभ्यः देशवासिभ्यः सप्तसप्ततितमस्य गणतन्त्रदिवसस्य हार्दिकाः अभिनन्दनाः शुभकामनाश्च अददात्।बसपाप्रमुखा सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र लेखनं कृत्वा अवदत् यत् — अद्य अस्माकं उत्
बसपा प्रमुख मायावती


लखनऊ, 26 जनवरीमासः (हि. स.)। बहुजनसमाजपक्षस्य (बसपा) अध्यक्षा मायावती सर्वेभ्यः देशवासिभ्यः सप्तसप्ततितमस्य गणतन्त्रदिवसस्य हार्दिकाः अभिनन्दनाः शुभकामनाश्च अददात्।बसपाप्रमुखा सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र लेखनं कृत्वा अवदत् यत् — अद्य अस्माकं उत्कृष्टसंविधानस्य विषये गर्वं कर्तुं शक्यते, परन्तु अस्य दिनस्य वास्तविकं महत्त्वं तदैव भवति यदा शासनानां महान्ति दावानि, मनोहराणि वचनानि च विहाय, एतत् ईमानदाररूपेण विचार्यते यत् केन्द्रीयराज्यशासनयोः कथनानि केवलं छलरूपाणि सन्ति वा, अथवा संविधानस्य सर्वसमाजहितैषिण्याः सत्यभावनायाः अनुरूपं देशेन राजनीतिके, सामाजिके, आर्थिके च लोकतन्त्रक्षेत्रे अपेक्षितः विकासः कृतः अस्ति, येन जनानां जीवनस्तरे किञ्चित् बहुप्रतीक्षितः सुधारः अभवत्। एवमेव कृत्वा देशस्य ज्वलन्तसमस्यानां समाधानमार्गः प्रशस्तः भवितुम् अर्हति।एतस्मिन् एव अवसरॆ गणतन्त्रदिवसे विविधक्षेत्रेषु उत्कृष्टसेवायै ये जनाः पद्मविभूषण, पद्मभूषण, पद्मश्री तथा सर्वोच्चवीरतापुरस्कारैः सम्मानिताः अभवन्, तेषां सर्वेषां तथा तेषां परिवाराणां प्रति हार्दिकाः अभिनन्दनाः शुभकामनाश्च व्यक्ताः।सा एतदपि अवदत् यत् — देशे बहुजनसमाजस्य कोटिशः दरिद्राः, शोषिताः, पीडिताः उपेक्षिताश्च जनाः स्वपादेषु स्थातुं, आत्मसम्मानस्वाभिमानयुक्तं जीवनं प्राप्तुं यत् संघर्षं कृत्वा स्वजीवनं समर्पितवन्तः, तस्य बहुजनसमाजपार्टीस्य जन्मदाता संस्थापकश्च मान्यः कांशीराममहाशयः, देशव्यापिभिः कोटिशः अनुयायिभिः यथाऽभिलषितं, अद्यैव विलम्बं विना भारतरत्नसम्मानेन अलङ्कर्तव्यः। अस्य एव मागणं बसपापक्षो निरन्तरं कुर्वती आगच्छति।

हिन्दुस्थान समाचार