Enter your Email Address to subscribe to our newsletters



पटना, 26 जनवरीमासः (हि.स.)।
बिहारे राजधानी पटनासहितं राज्यस्य अनेकासु जिल्लासु गणतन्त्रदिवससमारोहाणां आयोजनं कृतम्। पटनानगरस्य गान्धीमैदाने सप्तसप्ततितमस्य गणतन्त्रदिवससमारोहस्य अवसरॆ प्रातः सम्यक् नववादने बिहारराज्यस्य राज्यपालः आरिफ् मोहम्मद् खाँ गान्धीमैदाने राष्ट्रध्वजम् आरोहितवान्। अस्मिन् अवसरे मुख्यमन्त्री नीतीशकुमारः, उपमुख्यमन्त्री सम्राटचौधरीः, उपमुख्यमन्त्री विजयकुमारसिन्हा च अन्यैः मन्त्रिभिः सह उपस्थिताः आसन्।
ध्वजारोहणसमये सम्पूर्णमैदाने स्थिताः जनसमूहाः एकसाथं तिरङ्गध्वजाय सलामीं दत्त्वा राष्ट्रगानं “जनगणमन” अगायन्। एषः दृश्यः देशभक्तेः भावनां अधिकं सुदृढां कृतवान्। ध्वजस्य फहरणेन सह वातावरणे अद्भुतः उत्साहः आत्मविश्वासश्च दृष्टः।
ध्वजारोहणानन्तरं मार्च-पास्टस्य आरम्भः अभवत्, यस्मिन् विभिन्नसरकारीविभागानां, पुलिसबलस्य तथा अर्धसैनिकबलानां जवानाः स्वां भव्यां परेड् प्रदर्शितवन्तः। मार्च-पास्टे सम्मिलिताः विद्यालयमहाविद्यालयानां छात्राः छात्राश्च वर्णविचित्रवस्त्रैः पदप्रयाणं कृत्वा जनानां मनांसि आकर्षितवन्तः। पदप्रयाणकाले विविधाः झांक्यः सांस्कृतिकप्रस्तुतयश्च कार्यक्रमस्य शोभां वर्धितवन्तः।
राज्यपालः मार्च-पास्टाय सलामीं दत्तवान्, यत् अस्य आयोजनस्य अत्यन्तं महत्त्वपूर्णं अङ्गं मन्यते। सलामीकाले परेडे सम्मिलिताः सर्वे जवानाः छात्राश्च स्वस्वानुशासनं दृढतां च प्रदर्शयन्तः मार्चं कृतवन्तः। अस्मिन् अवसरे अप्रियघटनानां निवारणार्थं दृढसुरक्षाव्यवस्थाः अपि कृताः आसन्।
अस्मिन् अवसरे अनेकाः उच्चाधिकारिणः गणमान्यजनाश्च उपस्थिताः आसन्। समारोहे मुख्यमन्त्री नीतीशकुमारः, उपमुख्यमन्त्रिद्वयम् (सम्राटचौधरीः, विजयकुमारसिन्हा), अन्ये मन्त्रिणः, अधिकारिणः, सर्वकारीकर्मचारिणश्च सम्मिलिताः आसन्। तैः अस्य राष्ट्रियपर्वणः उत्सवस्य सह देशस्य संविधानस्य लोकतन्त्रस्य च प्रति स्वप्रतिबद्धता पुनः प्रतिपादिता।
मुख्यमन्त्री स्वभाषणे देशस्य प्रगतिं, बिहारराज्ये विकासकार्याणि, युवसंततेः भूमिकां च विशेषतया उद्घाटितवान्। सः अवदत् यत् गणतन्त्रदिवसस्य अयं पर्व अस्मान् स्मारयति यत् अस्माकं देशः संविधानाधारेण सुदृढं लोकतन्त्रं अस्ति। अयं दिवसः अस्मभ्यं एकतायाः अखण्डतायाः समानतायाश्च सन्देशं ददाति। प्रत्येकस्य नागरिकस्य कर्तव्यं अस्ति यत् सः संविधानस्य आदर्शान् पालयेत् तथा देशस्य प्रगतौ स्वयोगदानं दद्यात्।
बिहारे अस्मिन् अवसरे आयोजितानां सर्वेषां कार्यक्रमाणां मुख्योद्देश्यः एषः एव आसीत् यत् आगामिन्याःसंततेः अपि देशस्य प्रति सम्मानस्य उत्तरदायित्वस्य च भावनां विकसितुं शक्नुयुः।
---------------
हिन्दुस्थान समाचार