नवदिल्ल्याः गणतंत्र दिवसपदप्रयाणे असमस्य प्रदर्शिन्या मुग्धं मनः
गुवाहाटी, 26 जनवरीमासः (हि.स.)। देशव्यापिनी सप्तसप्ततितमा गणतन्त्रदिवसोत्सवः सोमवासरे महोत्साहपूर्वक आचरितः। अस्य एव क्रमस्य अन्तर्गतं नवदिल्लीस्थे कर्तव्यपथे आयोजितायां गणतन्त्रदिवसस्य भव्यायां परेडायां असमराज्यस्य झांकी स्वीयया सांस्कृतिकसमृद्ध्य
करतव्य पथ परेड में असम की झांकी


गुवाहाटी, 26 जनवरीमासः (हि.स.)। देशव्यापिनी सप्तसप्ततितमा गणतन्त्रदिवसोत्सवः सोमवासरे महोत्साहपूर्वक आचरितः। अस्य एव क्रमस्य अन्तर्गतं नवदिल्लीस्थे कर्तव्यपथे आयोजितायां गणतन्त्रदिवसस्य भव्यायां परेडायां असमराज्यस्य झांकी स्वीयया सांस्कृतिकसमृद्ध्या तथा पारम्परिककलायाः अनुपमप्रस्तुत्या सर्वेषां ध्यानं आकर्षितवती। अस्मिन् वर्षे परेडायाः आरम्भः असमझांक्या एव अभवत्, यत् राज्यस्य कृते गौरवस्य क्षणः आसीत्।अस्मिन् वर्षे असमराज्यस्य झांकी धुबड़ीजनपदस्य आशारिकांदीक्षेत्रे प्रसिद्धायाः टेराकोटा शिल्पकलायाः आधारेण निर्मिता आसीत्। झांकी अग्रे गच्छन्त्यां त्रयः बिहुवतीनर्तक्यः पारम्परिकं बिहू नृत्यम् अदर्शयन्, येन दर्शकाः मन्त्रमुग्धाः अभवन्। एषः दृश्यः अत्यन्तं मनोहरः आसीत् तथा राज्यस्य सांस्कृतिकपरिचयस्य सजीवं चित्रणं कृतवान्।यदा असमराज्यस्य झांकी पदप्रयाणमार्गेण अग्रसरत्, तदा राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी. पी. राधाकृष्णन, प्रधानमन्त्री नरेन्द्र मोदी, तथा कार्यक्रमस्य मुख्यातिथिरूपेण उपस्थितौ यूरोपीयसङ्घस्य नेतारौ उर्सुला वॉन डेर लेएन तथा एण्टोनियो कोस्टा च करतलध्वन्या झांकीं अभिवादितवन्तः।झांक्याम् हीरामाटीना (पवित्रमृत्तिकया) निर्मिताः देवदेवतामूर्तयः, पारम्परिकाः सरायाः, वंशशिल्पम्, तथा असमस्य सांस्कृतिकधरोहरां दर्शयन्ती मोरपङ्खीय नौका प्रदर्शिता। एते सर्वे घटकाः राज्यस्य लोककलां, आध्यात्मिकपरम्परां तथा हस्तशिल्पकौशलं प्रभावशालीरूपेण प्रकाशितवन्तः।उल्लेखनीयं यत् अस्मिन् वर्षे गणतन्त्रदिवसपदप्रयाणे कुलं त्रिंशत् झांक्यः सम्मिलिताः आसन्, यासु सप्तदश राज्यकेंद्रशासितप्रदेशानां तथा त्रयोदश केन्द्रीयमन्त्रालयविभागानां झांक्यः आसन्। सर्वाः झांक्यः ‘स्वतन्त्रतायाः मन्त्रः वन्दे मातरम्’ तथा ‘समृद्धेः मन्त्रः आत्मनिर्भर भारतः’ इति विषयाधारिताः आसन्।असमराज्यस्य झांकी स्वीयया जीवंतया सांस्कृतिकप्रस्तुत्या न केवलं दर्शकान् मन्त्रमुग्धान् अकरोत्, अपि तु राष्ट्रियमञ्चे राज्यस्य समृद्धां कलां परम्परां च सशक्तरूपेण प्रदर्शितवती।------------

हिन्दुस्थान समाचार