रायपुरम् : राज्यपाल  डेका रायपुरे राष्ट्रिय ध्वजं प्रसार्य अगृह्णात् पदप्रयाणस्य अभिवादनम्
रायपुरम् 26 जनवरीमासः (हि.स.)। देशस्य सह छत्तीसगढराज्येऽपि ७७तमः गणतन्त्रदिवसः महोत्साहसेन सम्यक् आचर्यते। अस्मिन् शुभावसरे सोमवासरे राजधानी रायपुरस्य पुलिस परेडक्रीणांगणे छत्तीसगढराज्यस्य राज्यपालः रमेन डेका महोदयः राष्ट्रियध्वजम् आरोह्य पदप्र
राज्यपाल  डेका राष्ट्रीय ध्वज फहराते हुए


रायपुरम् 26 जनवरीमासः (हि.स.)।

देशस्य सह छत्तीसगढराज्येऽपि ७७तमः गणतन्त्रदिवसः महोत्साहसेन सम्यक् आचर्यते।

अस्मिन् शुभावसरे सोमवासरे राजधानी रायपुरस्य पुलिस परेडक्रीणांगणे छत्तीसगढराज्यस्य राज्यपालः रमेन डेका महोदयः राष्ट्रियध्वजम् आरोह्य पदप्रयाणस्य सलामीम् अगीकृतवान्।

पदप्रयाणनिरीक्षणकाले मुख्यसचिवः विकास शील तथा पुलिस महानिदेशकः अरुण देव गौतम अपि उपस्थितौ आस्ताम्।

राज्यपालः डेका महोदयः प्रदेशवासिभ्यः गणतन्त्रदिवसस्य हार्दिकाः शुभेच्छाः प्रेषितवान्।

सः अवदत् यत् अयं पवित्रः अवसरः अस्मान् राष्ट्रस्य एकताम् अखण्डतां च संरक्ष्य देशप्रति स्वकर्तव्यपालनाय प्रेरयति।

गणतन्त्रदिवसः भारतीयलोकतन्त्रस्य महान् परम्परायाः तथा अस्माकं संवैधानिकमूल्यानां समृद्धनिक्षेपस्य प्रतीकः अस्ति।

---

हिन्दुस्थान समाचार