मुख्यमंत्री डॉ. यादवो गणतंत्र दिवस पर्वणि प्रदेशवासिभ्योऽददात् शुभकामनाः
भाेपालम्, 26 जनवरीमासः (हि.स.)। अद्य सोमवासरे सम्पूर्णदेशे सप्तसप्ततितमः गणतन्त्रदिवसः महोत्साहेन समाचर्यते। अयं दिवसः केवलं संवैधानिकौपचारिकतामात्रं न, अपि तु भारतस्य लोकतान्त्रिकमूल्यानां, गौरवशालिनः इतिहासस्य तथा भविष्ये विकसितसंकल्पस्य प्रतीक
मुख्यमंत्री डॉ. यादव


भाेपालम्, 26 जनवरीमासः (हि.स.)।

अद्य सोमवासरे सम्पूर्णदेशे सप्तसप्ततितमः गणतन्त्रदिवसः महोत्साहेन समाचर्यते। अयं दिवसः केवलं संवैधानिकौपचारिकतामात्रं न, अपि तु भारतस्य लोकतान्त्रिकमूल्यानां, गौरवशालिनः इतिहासस्य तथा भविष्ये विकसितसंकल्पस्य प्रतीकः अस्ति।मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः गणतन्त्रदिवसस्य पावनावसरे प्रदेशवासिभ्यः शुभाशयान् प्रेषितवान्। मुख्यमन्त्री डॉ यादवः सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र स्वशुभाशयसन्देशे अवदत् यत्“युष्मान् सर्वान् सप्तसप्ततितमस्य गणतन्त्रदिवसस्य पावनावसरे हार्दिकाः अभिनन्दनाः मङ्गलकामनाश्च। अयं दिवसः संविधानस्य, लोकतान्त्रिकमूल्यानां तथा एकतायाः प्रति निष्ठां स्मारयति। आगच्छत, समृद्धस्य सशक्तस्य विकसितस्य च मध्यप्रदेशस्य निर्माणाय संकल्पं कुर्मः तथा राष्ट्रनिर्माणे योगदानं दद्मः।”भाजपाप्रदेशाध्यक्षः हेमन्तखण्डेलवालः अपि गणतन्त्रदिवसस्य अवसरॆ प्रदेशवासिभ्यः शुभाशयान् अददात्। सः स्वसन्देशे अवदत् —“युष्मान् सर्वान् सप्तसप्ततितमस्य गणतन्त्रदिवसस्य हार्दिकाः अभिनन्दनाः शुभाशयाश्च। अयं दिवसः अस्माकं स्वातन्त्र्यसंग्रामसेनानां महान् संघर्षान् बलिदानानि च स्मर्तुं अवसरः अस्ति, येन वयं एकं सार्वभौमं लोकतान्त्रिकं राष्ट्रं प्राप्तवन्तः। आगच्छत, सर्वे मिलित्वा संविधानस्य सम्मानं कुर्मः, स्वकर्तव्यपालनं च कृत्वा देशस्य प्रगतौ स्वयोगदानं दद्मः।जय हिन्द्।”

---------------

हिन्दुस्थान समाचार