मोहन–नागरः — मृत्तिकां, मनुष्यं च भविष्यं च संयोजक: सामाजिकव्यक्तित्वम्
डॉ.मयङ्क: चतुर्वेदी रायपुरियाग्रामात् (पचोर–क्षेत्रे), राजगढ–जनपदस्य साधारणायाः मृत्तिकायाः उद्भूय मोहन–नागरः याम् असाधारणां सामाजिक–यात्रां निर्मितवान्, सा अद्य मध्य–प्रदेशस्य सीमाम् अतिक्रम्य सम्पूर्ण–देशस्य प्रेरणास्रोतः अभवत्। तस्य प्रेरणायाः,
मोहन नागर


डॉ.मयङ्क: चतुर्वेदी

रायपुरियाग्रामात् (पचोर–क्षेत्रे), राजगढ–जनपदस्य साधारणायाः मृत्तिकायाः उद्भूय मोहन–नागरः याम् असाधारणां सामाजिक–यात्रां निर्मितवान्, सा अद्य मध्य–प्रदेशस्य सीमाम् अतिक्रम्य सम्पूर्ण–देशस्य प्रेरणास्रोतः अभवत्। तस्य प्रेरणायाः, सेवाभावस्य च सम्मानार्थं वर्षे २०२६ तमे पद्मश्री–सम्मानेन सः अलङ्करिष्यते।त्रिंशत्–वर्षेभ्यः अधिककालं यावत् तस्य जीवनं समाजाय, शिक्षायै, प्रकृतये च समर्पितम् आसीत्। सः तेषु व्यक्तित्वेषु अन्यतमः अस्ति, यस्य विषये पदेन वा पुरस्कारैः पूर्वं कर्मैव भाषते। जल–संरक्षणे, नदी–पुनर्जीवने, भूमेः संशोधने, सामाजिक–चेतनायां, स्वदेशी–प्रयोगेषु तथा प्राकृतिक–कृष्या कृषकाणाम् आर्थिक–सशक्तीकरणे च यः अविरतं निष्ठया कार्यं कृतवान्, तेन सहस्रशः ग्रामाणां लक्षशः जनानां च जीवन–दिशा परिवर्तिता।

२३ फेब्रुवरीमासे १९६८ तमे वर्षे जन्म प्राप्तवान् मोहन–नागरः ग्राम्य–जीवने, कृषिक्षेत्रेषु, शुष्कताया: वेदनायां च स्वं बाल्यकालं यापितवान्। कृषक–परिवारे जन्मतः एव सः अल्पायां एव वयसि अवगतवान् यत् — जलमेव जीवनम्। शुष्काः कूपाः, म्लानाः सस्याः, पलायनाय बाध्यमानाः ग्रामवासिनः — एते अनुभवाः तस्य अन्तःकरणे प्रगाढम् अंकिताः। एते एव अनुभवा: अग्रे तस्य जीवन–लक्ष्यरूपे परिणताः।

शिक्षां प्रति रुचिः तं विक्रम–विश्वविद्यालयं नीतवती, यत्र सः राजनीति–विज्ञाने स्नातकोत्तर–पदवीं प्राप्तवान्। तथापि तस्य वास्तविक–पाठशाला ग्राम एव आसीत्, यत्र समस्याः पुस्तकेभ्यः अधिकं जीविताः, जटिलाश्च आसन्। शिक्षा–समाप्त्यनन्तरं सः सुविधाजनकं मार्गं परित्यज्य समाज–सेवायाः कठिनं पन्थानं स्वीकृतवान्। राष्ट्रीय–स्वयंसेवक–संघात् प्राप्तैः संस्कारैः तस्य अन्तःकरणे सेवा, अनुशासनं, राष्ट्रबोधश्च दृढीकृतः। एतेन कारणेन सः दीर्घकालं बैतूल–क्षेत्रे सामाजिक–कार्येषु आत्मनः समर्पणं कर्तुं समर्थः अभवत्। अनन्तरं भारत–भारती–शिक्षा–संस्थानस्य कार्येषु सः संलग्नः अभवत्, यत्र शिक्षां पाठ्यक्रम–सीमात् बहिः नीत्वा व्यवहारिक–प्रयोगेषु बलं दत्तवान्। प्रकृत्या, समाजेन, संस्कृत्या च विद्यार्थिनां संयोजनं कृत्वा सः शिक्षकात् समाज–निर्मातारं प्रति विकसितः।

जल–संरक्षणे भूमेः पुनर्जीवने च तस्य सामाजिक–व्यक्तित्वं विशेषतया प्रकाशते। सः स्पष्टतया अवगतवान् यत् — ग्राम–रक्षणाय जल–रक्षणम् अनिवार्यम्। बैतूल–जनपदस्य सोना–घाटी तथा जनजातीय–अञ्चलं तस्य कार्य–केन्द्रम् अभवत्, यत्र पर्याप्त–वृष्ट्याः सति अपि जल–संकटं वर्धमानम् आसीत्। वर्षाजलं प्रवह्य नश्यति स्म, भूमौ संचयः न भवति स्म, भू–जल–स्तरः निरन्तरं पतति स्म।

मोहन–नागरः समाधानं न शासनात्, न बाह्य–संस्थाभ्यः, अपि तु ग्रामवासिभ्यः एव अन्वेषितवान्। सः जनान् उपवेश्य जलस्य महत्त्वं बोधितवान्, श्रमदान–संस्कृतिं पुनर्जीवितवान्। तस्य नेतृत्वे तडागाः पुनर्निर्मिताः, लघु–चेक–तडागा:, बोरी–बन्धानानि, कंटूर–ट्रेंच–प्रणाल्यः च निर्मिताः। अद्यावधि तस्य मार्गदर्शने पञ्चसप्ततिः–सहस्राधिकाः जल–संरचनाः निर्मिताः, त्रिशताधिकानि बोरी–बन्धानानि, सप्त–सहस्राधिकानि सिंचन–तन्त्राणि च विकसितानि। एतेन दश–सहस्र–हेक्टेयराधिकायाः भूमेः सिंचन–सुविधा लब्धा, भू–जल–स्तरे च प्रायः विंशतिः–फिट्–पर्यन्तं वृद्धिः दृष्टा।

यत्र जलं स्थितम्, तत्र हरितिमा आगता — इति भावेन तेन व्यापकं वृक्षारोपणं कारितम्। षष्टि–एकर–परिमितं बंजर–भूमिक्षेत्रम् उपजाऊ–वनाच्छादितं कृतम्। पञ्चाशत्–सहस्राधिकाः वृक्षाः रोपिताः, ये अद्य लघु–वनरूपे विकसिताः। एषा हरितिमा पर्यावरण–सन्तुलनं रक्षन्ती ग्रामीण–अर्थव्यवस्थायाः अपि आधारः अभवत्।

नदी–पुनर्जीवनं तस्य कार्यस्य अन्यत् महत्वपूर्ण: पक्ष: अस्ति। ‘गङ्गा–अवतरण–अभियान’ इत्यादिभिः प्रयत्नैः शुष्काः नद्यः नालिका: च पुनर्जीविताः। नदी–उद्गमात् प्रवाह–क्षेत्रपर्यन्तं जल–संरचनाभिः जलं भूमौ निवेशितम्, येन बहुषु नद्याः पुनः प्रवाहिताः। परिणामतः कृषिः, पशुपालनं, रोजगार–अवसराः च पुनः विकसिताः।

वर्तमानकाले सः मध्यप्रदेश–जन–अभियान–परिषदः उपाध्यक्ष–रूपेण सेवां ददाति। अस्यां भूमिकायां सः जल–संरक्षणे, सामाजिक–चेतनायां, शिक्षायां, जन–सहभागितायां च नूतनान् प्रयोगान् आरब्धवान्। नीति–योजना–विचारान् कागदात् भूमौ अवतारयितुं तस्य दृढः विश्वासः अस्ति। सः स्वयं ग्रामान् गत्वा कार्य–समीक्षां करोति, स्थानीय–नेतृत्वं च निर्मापयति।

आदिवासी–ग्रामीण–युवानः तेन ‘जल–प्रहरी’–रूपेण प्रशिक्षिताः, ये अद्य स्व–स्व–क्षेत्रेषु जल–पर्यावरण–संरक्षणे प्रवृत्ताः सन्ति। एतत् सतत–विकासस्य आदर्शः अस्ति, यत्र एकः पुरुषः सहस्रशः जनान् सक्षमं करोति। अत एव बैतूल–क्षेत्रे मोहन–नागरः जननायक–रूपेण सम्मानितः।वर्षे २०२६ तमे पद्मश्री–सम्मानं तस्य त्रिंशत्–वर्षीय–निरन्तर–साधनायाः राष्ट्रीय–स्वीकृतिः अस्ति। सः स्वयम् एतत् सम्मानं आत्मनः न, अपि तु तैः सहस्रशः ग्रामवासिभिः, स्वयंसेवकैः च सह समर्पयति, ये कसिकां गृहीत्वा भूमेः सेवां कृतवन्तः। एषा विनयशीलता तस्य व्यक्तित्वम् अधिकम् उन्नतं करोति।

रायपुरियाग्रामात् आरब्धा तस्य यात्रा अद्य सहस्रशः ग्रामान् स्पृशति। तस्य जीवनं एतत् शिक्षयति यत् सामाजिक–परिवर्तनाय महद् संसाधनं न आवश्यकम् अपि तु महत् संकल्पमेव पर्याप्तम्।

हिन्दुस्थान समाचार / अंशु गुप्ता