Enter your Email Address to subscribe to our newsletters

रायपुरम् 26 जनवरीमासः (हि.स.)।
गणतन्त्रदिवसस्य अवसरे अद्य सोमवासरे राज्यपालः रमेनडेका राजधानी रायपुरनगरे तथा मुख्यमन्त्री विष्णुदेवसायः जिलामुख्यालये बिलासपुरनगरे राष्ट्रध्वजम् आरोहयिष्यतः परेडस्य सलामीं च स्वीकरिष्यतः।
अस्मिन् अवसरॆ राज्यस्य अन्येषु जिलामुख्यालयेषु मन्त्रिणः, सांसदाः, विधायकाश्च मुख्यातिथिरूपेण राष्ट्रध्वजम् आरोहयिष्यन्ति तथा मुख्यमन्त्री विष्णुदेवसायस्य सन्देशस्य वाचनं करिष्यन्ति।
तथैव केन्द्रीयराज्यमन्त्री तोखनसाहूः दुर्गनगरे, उपमुख्यमन्त्री अरुणसावः बस्तरनगरे, उपमुख्यमन्त्री विजयशर्मा सरगुजानगरे, तथा विधानसभा-अध्यक्षः डॉ रमनसिंहः राजनांदगावनगरे आयोजिते गणतन्त्रदिवसस्य मुख्यसमारोहे राष्ट्रध्वजम् आरोक्ष्यन्ति।
---------------
हिन्दुस्थान समाचार