Enter your Email Address to subscribe to our newsletters


जयपुरनगरम्, २६ जनवरीमासः (हि.स.)। गणतन्त्र–दिवस–२०२६–अवसरे जयपुरस्थिते एस.एम.एस.–क्रीडाङ्गणे आयोजिते राज्य–स्तरीये मुख्य–समारोहस्य संचलन–कार्यक्रमे राज्य–आपदा–प्रतिसाद–बलस्य (एसडीआरएफ) आकर्षिका प्रदर्शिनी प्रदर्शिता। अस्याः प्रदर्शिन्या: माध्यमेन एसडीआरएफ–संस्थायाः क्षमताः, सेवाः च जनसामान्येभ्यः प्रदर्शिताः। प्रदर्शिन्या: मुख्य–विषयः “आपदा–प्रबन्धने तत्परता, प्रौद्योगिकी, सहायता तथा मानवीय–संवेदना” इति आसीत्।
एसडीआरएफ–प्रदर्शिनी कमाण्डेन्ट् राजेन्द्र–सिंह–सिसोदिया–महाशयस्य नेतृत्वे सिद्धा अभवत्, यस्याम् एसडीआरएफ–बलस्य प्रशिक्षिताः सैनिका: सहभागं कृतवन्तः। राजस्थान–एसडीआरएफ–कमाण्डेन्ट राजेन्द्र–सिंह–सिसोदिया अवदत् यत् प्रदर्शिन्याम् आपदा–प्रबन्धन–राहत–कार्येषु उपयुज्यमानानि विविधानि आधुनिक–उपकरणानि तथा नवीन–प्रौद्योगिक्यः प्रदर्शिताः। अस्याः प्रदर्शिन्या: उद्देश्यं जनसामान्येषु एसडीआरएफ–संस्थायाः भूमिकायाः तथा कार्याणां विषये जागरूकतां प्रसारयितुम् आसीत्।
तथैव पत्रक–माध्यमेन एसडीआरएफ–द्वारा पूर्वकाले सम्पन्नानि विविधानि उद्धार–अभियानानि तथा जन–जागरूकता–कार्यक्रमाः अपि प्रदर्शिताः। सः अवदत् यत् वर्षात् २०१६ आरभ्य अद्यावधि एसडीआरएफ–कार्मिकैः २२२२ उद्धार–अभियानानि सञ्चालितानि, येन १५४३३ जनाः सुरक्षिततया जीविताः उद्धृताः। खेतडी–प्रदेशस्य गह्वर–खदानेषु बद्धा: श्रमिकाः, बोरवेल–मध्ये पतितः च सुरक्षिततया उद्धृतौ। जलीय–आपदासु एसडीआरएफदलं संकट–मोचक–रूपेण सदैव अग्रे स्थितम् इति अपि तेनोक्तम्।
एस.एम.एस.–क्रीडाङ्गणे उपस्थितैः जनसमूहैः एसडीआरएफ–प्रदर्शिनी विशेषतया प्रशंसिता। विद्यालयीय–बालकैः तथा सामान्य–नागरिकैः सह प्रदर्शिन्या: सह छायाचित्र–ग्रहणाय विशेष–उत्साहः दृष्टः।
हिन्दुस्थान समाचार / अंशु गुप्ता