गणतंत्र दिवसे मुख्यमंत्री योगी प्रदेशवासिभ्योऽददात् हार्दिकानि वर्धापनानि
लखनऊ, 26 जनवरीमासः (हि. स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः गणतन्त्रदिवसे प्रदेशवासिभ्यः शुभाशयान् प्रेषितवान्। सः सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र अलिखत् यत् — प्रदेशवासिभ्यः सप्तसप्ततितमस्य गणतन्त्रदिवसस्य हार्दिकाः अभिनन्दनाः शुभ
सीएम योगी ने दी बधाई


लखनऊ, 26 जनवरीमासः (हि. स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः गणतन्त्रदिवसे प्रदेशवासिभ्यः शुभाशयान् प्रेषितवान्। सः सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र अलिखत् यत् — प्रदेशवासिभ्यः सप्तसप्ततितमस्य गणतन्त्रदिवसस्य हार्दिकाः अभिनन्दनाः शुभाशयाश्च।

अस्माकं सर्वेषां राष्ट्रप्रेम, कर्तव्यनिष्ठा तथा विकासे प्रति समर्पणं अस्माकं लोकतन्त्रं सशक्तं सुदृढं च करोति। आगच्छत, अमरसेनानां स्मरणं कुर्मः तथा संविधानस्य आदर्शैः प्रेरिताः सन्तः ‘सशक्तं समृद्धं च आत्मनिर्भरं भारतम्’ निर्मातुं संकल्पं कुर्मः। जय हिन्द्।

एतस्मिन् एव प्रसङ्गे सः प्रदेशस्य जनतायै एकं पत्रमपि अलिखत्। अस्मिन् पत्रे विशेषतः युवजनान् प्रति तेन आह्वानं कृतम्। सः अलिखत् यत्

“मम सम्मानिताः प्रदेशवासिनः, अस्माकं संविधानं अस्मभ्यं स्वातन्त्र्यं, समतां, न्यायं तथा बन्धुत्वं इति अमूल्यानि उपहाराणि ददाति। एते संवैधानिकमूल्याः लोकतन्त्रस्य आत्मा सन्ति।

गणतन्त्रदिवसस्य अस्मिन् पावनावसरे अहं विशेषतः प्रदेशस्य युवजनान् आह्वयामि यत् ते संविधानस्य आदर्शान् आत्मसात् कृत्वा नूतनस्य उत्तरप्रदेशस्य निर्माणे स्वां सक्रियां भूमिकां निर्वहन्तु। संविधानस्य प्रति निष्ठां, राष्ट्रस्य प्रति समर्पणं तथा समाजस्य प्रति उत्तरदायित्वं च संकल्पयन्तु।

सर्वेभ्यः प्रदेशवासिभ्यः सप्तसप्ततितमस्य गणतन्त्रदिवसस्य हृदयतः शुभाशयाः।”

---------------

हिन्दुस्थान समाचार