गणतन्त्र–दिवसे श्री–काशी–विश्वनाथ–धाम्नि नूतन: प्रयत्न: — ध्वजारोहणानन्तरं प्रथमवारं ध्वजवन्दनम्
वाराणसीनगरम्, २६ जनवरीमासः (हि.स.)। ७७तमस्य गणतन्त्र–दिवसस्य अवसरे सोमवासरे श्री–काशी–विश्वनाथ–धाम्नि एकः नूतनः उपक्रमः आचरितः। धाम्नि ध्वजारोहणानन्तरं प्रथमवारं ध्वज–वन्दन–समारोहः आयोजितः। एषः कार्यक्रमः श्री–काशी–विश्वनाथ–धामस्थिते प्रशासनिक–कार्
गणतंत्र दिवस पर श्री काशी विश्वनाथ धाम का तिरंगा श्रंगार


Monday Rudrabhishek of Avimukteshwa


वाराणसीनगरम्, २६ जनवरीमासः (हि.स.)। ७७तमस्य गणतन्त्र–दिवसस्य अवसरे सोमवासरे श्री–काशी–विश्वनाथ–धाम्नि एकः नूतनः उपक्रमः आचरितः। धाम्नि ध्वजारोहणानन्तरं प्रथमवारं ध्वज–वन्दन–समारोहः आयोजितः। एषः कार्यक्रमः श्री–काशी–विश्वनाथ–धामस्थिते प्रशासनिक–कार्यालये नीलकण्ठ–भवने सम्पन्नः।

ध्वजारोहण–समारोहे श्री–काशी–विश्वनाथ–मन्दिर–न्यासस्य मुख्य–कार्यपालक–अधिकारी विश्व–भूषणः, उपजिलाधिकारी पवन–प्रकाशः, उप–सङ्ग्राहकः (डिप्टी–कलेक्टरः) शम्भु–शरणः, नायब–तहसीलदारः मिनीएल.शेखरः, तथा न्यासस्य सर्वे अधिकारिण: कर्मचारिणश्च उत्साहेन सहभागिन: अभवन्।

राष्ट्रध्वजस्य विधिवत् ध्वजारोहणं कृत्वा राष्ट्रगान–गायनेन मातृभूम्यै नमनं कृतम्। ततः अनन्तरं, विगत–द्विवर्षयोः आरब्धानां नवाचाराणां निरन्तरतया, श्री–काशी–विश्वनाथ–धामस्थितायां भारत–माता–प्रतिमायाम् श्रद्धा–राष्ट्रभक्ति–भावेन आराधना कृता। न्यासेन सूचितं यत्—राष्ट्रीय–नेतृत्वस्य प्रेरणया, अस्य वर्षस्य नूतन–नवाचाररूपेण भारत–माता–प्रतिमा–स्थले एव प्रतिष्ठितस्य राष्ट्रध्वजस्य आराधनायाः ध्वज–वन्दन–कार्यक्रमः सम्पन्नः।

अवसरे डमरु–वादनं जातम्; मन्दिरस्य शास्त्रिणः स्वस्ति–वाचनानन्तरं त्रिरङ्ग–ध्वजे पुष्पाञ्जलिम् अर्पितवन्तः। ततः भारत–मातुः तथा राष्ट्रध्वजस्य विधिवत् आरार्तिकी कृता। कार्यक्रमे देशस्य समृद्ध्यै शान्तये च प्रार्थना कृता।समस्त–कार्यक्रमानन्तरं धामस्थिते सभागारे (बोर्ड–रूमे) गोष्ठी आयोजिताभश अभवत्, यस्यां राष्ट्रस्य एकता, अखण्डता, सम्प्रभुता, शान्तिः, प्रगतिः तथा विश्व–कल्याणं कामितम्। सर्वैः स्व–स्व–दायित्वानां पूर्ण–निष्ठया सत्यतया च निर्वहणस्य, तथा बाबा–श्री–काशी–विश्वनाथस्य आशीर्वादेन राष्ट्रोन्नत्यै जन–कल्याणाय च निरन्तर–योगदानस्य संकल्पः कृतः।

अद्य मन्दिरे समस्तेषु कार्यक्रमेषु आरार्ति–शृङ्गारेषु च राष्ट्रीय–पर्वण: स्पष्टं दृश्यन मुख्याकर्षणम् आसीत्। नवाचाररूपेण सोमवासरीये रुद्राभिषेके अविमुक्तेश्वर–महादेवस्य अर्घ्यं राष्ट्रध्वज–सहितम् अभिषिक्तम्। सर्वेषु आरार्ति–शृङ्गारेषु अपि त्रिरङ्ग–आधारित–थीम–शृङ्गारः कृतः। श्री–काशी–विश्वनाथ–मन्दिर–न्यासेन गणतन्त्र–दिवसस्य अस्मिन् पावनावसरे सर्वेभ्यः श्रद्धालुभ्यः नागरिकेभ्यः देशवासिभ्यश्च हार्दिकाः शुभेच्छाः प्रेषिताः; ईश्वरात् प्रार्थितं यत्—अस्माकं जीवने सत्यस्य सनातन–मूल्यानां धर्म–मार्गस्य च प्रकाशः सदा वर्धतां, राष्ट्रं च निरन्तरं प्रगतिपथे अग्रसरं भवतु।

हिन्दुस्थान समाचार / अंशु गुप्ता