Enter your Email Address to subscribe to our newsletters

बीकानेरम्, 26 जनवरीमासः (हि.स.)।
सोमवासरे डॉ. करणीसिंहक्रीडाङ्गणे सप्तसप्ततितमः गणतन्त्रदिवससमारोहः अत्यन्तं गरिमामये उल्लासपूर्णे च वातावरणे समायोजितः। जिलास्तरीयसमारोहस्य मुख्यातिथिः खाद्यनागरिकआपूर्तिमन्त्री सुमितगोदारा ध्वजारोहणं कृतवान्। अस्मिन् अवसरॆ शान्तेः प्रतीकरूपाणि श्वेतकपोताः तथा वर्णविचित्राः गुब्बाराः आकाशे विसृष्टाः, येन सुखसमृद्धिसमरसतायाः सन्देशः प्रसारितः।
ध्वजारोहणानन्तरं मुख्यातिथिना गोदारामहोदयेन पदप्रयाणस्य निरीक्षणं कृतं, मार्चपास्टस्य सलामी च गृहीता। राज्यपालस्य सन्देशः अपरजिलाधिकारीप्रशासन सुरेशकुमारयादवेन पठित्वा श्रावितः। मुख्यातिथिरूपेण सम्बोधयन् गोदारामहोदयः वीरशहीदान् नत्वा सर्वेभ्यः गणतन्त्रदिवसस्य शुभाशयान् अयच्छत्। सः अवदत् यत् अद्य वयं विश्वस्य सर्वाधिकसफलतमानां लोकतन्त्राणां मध्ये स्वस्य सप्तसप्ततितमं गणतन्त्रदिवसं आचरामः। अद्य सम्पूर्णं विश्वं भारतस्य भारतीयजनानां च सामर्थ्यं स्वीकुर्वन् दृश्यते।
शहीदेषु संविधाननिर्मातृषु च कृतज्ञतां व्यक्तीकुर्वन् गोदारामहोदयः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीमहोदयस्य कुशलनेतृत्वे राष्ट्रं निरन्तरं प्रगतिपथे अग्रसरं भवति। चतुर्धशदशांशपञ्चट्रिलियण्डालरमितया अर्थव्यवस्थया भारतं अद्य विश्वस्य चतुर्थं बृहत्तमं अर्थतन्त्रं जातम् अस्ति। शीघ्रमेव जर्मनीदेशं अतिक्रम्य तृतीयं बृहत्तमं अर्थतन्त्रं भविष्यामः।
गोदारामहोदयः अवदत् यत् गतैकादशवर्षेषु देशे सप्तविंशतिकोटिजनाः दारिद्र्यरेखातः बहिः नीताः। नक्सलवादः देशे समूलं नाशितः अस्ति। राष्ट्रं द्विसहस्रसप्तचत्वारिंशत्तमे वर्षे विकसितभारतत्वस्य दिशायां शीघ्रगत्या अग्रे गच्छति।
समारोहावसरे सामाजिकसेवा, क्रीडा, कला, संस्कृति तथा राजकीयसेवाक्षेत्रेषु उत्कृष्टयोगदानं दत्तवतीः षट्चत्वारिंशत् प्रतिभाः सम्मानिताः। श्रीडूंगरगढस्थां श्रीगोपालगौशालां उत्कृष्टगौशालापुरस्कारेण अलङ्कृतम्।
अस्मिन् अवसरे सीडीईओ महेन्द्रकुमारशर्मणः, डीईओ माध्यमिक किशनदानचारणस्य च मार्गदर्शने प्रायः त्रयोदशशतानि बालकाः व्यायामयोगभारतीयनृत्यसमूहिकनृत्यानां मनोहराः प्रस्तुतयः अकुर्वन्। अनिलबोड़ा रामकुमारपुरोहितसुशीलस्वामिनोः निर्देशने षोडशविद्यालयाणां पञ्चचत्वारिंशदधिकचतुःशतानि बालकाः व्यायामप्रस्तुतिं कृतवन्तः। ऋतुशेखावतमीणाक्षीशर्मास्नेहलतारावतयोः निर्देशनॆ द्वादशविद्यालयाणां चतुःशतानि छात्राः भारतीयनृत्यं प्रदर्शितवन्तः। श्यामराजशर्मागुलाबचन्दसन्तोषकुमारनायकयोः निर्देशने सप्तविद्यालयाणां पञ्चाशदधिकद्विशतानि बालकाः योगाभ्यासं कृतवन्तः। महाराणीविद्यालयस्य द्विशतं छात्राः नृत्यनिर्देशिका डॉ. वीणाजोश्याः निर्देशने समूहिकनृत्यं प्रदर्शितवन्तः। ऋतुशर्मासोमेशजावाजसदेवसिंहजाकिरहुसैनानां निर्देशनॆ आरएसवीविद्यालयस्य बालकैः समूहिकवाद्ययन्त्रवादनं गायनं च अत्यन्तं मनोहरं प्रदर्शितम्।
समारोहे संभागीयायुक्तः विश्राममीणा, महानिरीक्षकः पुलिस हेमन्तशर्मा, जिलाकलेक्टरः नम्रतावृष्णिः, पुलिसअधीक्षकः कावेन्द्रसिंहसागरः, कैबिनेटमन्त्रिणः धर्मपत्नी शान्ताचौधरी, नगरनिगमायुक्तः मयंकमनीषः, बीडीएआयुक्ता अपर्णागुप्ता, जिला परिषदः मुख्यकार्यकारीधिकारी तथा अन्ये बहवः अधिकारीणः उपस्थिताः आसन्।
कार्यक्रमस्य मंचसञ्चालनं कलेक्ट्रेटस्य प्रशासनिकाधिकारी संजयपुरोहितेन, सहायकपर्यटनाधिकारी नेहाशेखावतया, आईजीएनपी द्वितीयस्य लेखाधिकारी गुंजनचोपडया च कृतम्।
गणतन्त्रदिवससमारोहे विभिन्नविभागैः प्रस्तुतानां द्वादशप्रदर्शिनीनां प्रदर्शनं कृतम्। तासु स्वामीकेशवानन्दराजस्थानकृषिविश्वविद्यालयस्य झांकी प्रथमस्थानं, वनविभागस्य द्वितीयस्थानं, जिलापरिषदः प्रदर्शिनी तृतीयस्थानं प्राप्तवती।
---------------
हिन्दुस्थान समाचार