नव दिल्ल्याः कर्तव्य पथि दृष्टस्य गुरु तेग बहादुरस्य हुतात्मतां प्रत्याधारिता पंजाबस्य प्रदर्शिनी
चंडीगढ़म्, 26 जनवरीमासः (हि.स.)। गणतन्त्रदिवसे सोमवासरे नूतनदिल्लीस्थे कर्तव्यपथे पञ्जाबराज्यस्य झांक्या साहिब् श्रीगुरुतेगबहादुरसाहिबस्य अद्वितीया शहादत् प्रदर्शिता। एषा झांकी सर्वेषां ध्यानम् आकृष्टवती, समग्रं राष्ट्रं प्रति मानवतायाः, न्यायस्य
गणतंत्र दिवस के अवसर पर कर्तव्य पथ पर पंजाब की झांकी


चंडीगढ़म्, 26 जनवरीमासः (हि.स.)।

गणतन्त्रदिवसे सोमवासरे नूतनदिल्लीस्थे कर्तव्यपथे पञ्जाबराज्यस्य झांक्या साहिब् श्रीगुरुतेगबहादुरसाहिबस्य अद्वितीया शहादत् प्रदर्शिता। एषा झांकी सर्वेषां ध्यानम् आकृष्टवती, समग्रं राष्ट्रं प्रति मानवतायाः, न्यायस्य, धर्मरक्षणस्य च महान् सन्देशं प्रसारितवती।

सामाजिकमाध्यमे ‘एक्स’ नाम्नि आमआदमीपार्टीयाः राष्ट्रियसंयोजकः अरविन्दः केजरीवालः अवदत् यत् गणतन्त्रदिवसस्य अवसरॆ कर्तव्यपथे साहिब् श्रीगुरुतेगबहादुरसाहिबस्य अद्वितीयायै शहादतायै श्रद्धांजलिं अर्पयन्ती पञ्जाबस्य एषा अनुपमा झांकी दृष्ट्वा सम्पूर्णे देशे गौरवबोधः उत्पन्नः, तथा सा समग्रं राष्ट्रं तेषां त्यागस्य मानवतायाः च शाश्वतसन्देशस्य स्मरणं कारितवती।

पञ्जाबस्य मुख्यमन्त्री भगवन्तसिंहमानः अवदत् यत् एतत् पञ्जाबराज्यस्य सिखसमुदायस्य च कृते अत्यन्तं गौरवस्य विषयः अस्ति यत् अद्य ‘हिन्दकीचादर’ इति विख्यातस्य साहिब् श्रीगुरुतेगबहादुरसाहिबस्य त्रिशतपञ्चाशत्तमे शहीदीदिवसे समर्पिता झांकी गणतन्त्रदिवसपरेडे प्रदर्शिता।

साहिब् श्रीगुरुतेगबहादुरसाहिबस्य अद्वितीया शहादत् मानवाधिकाराणां, धर्मरक्षणस्य, न्यायस्य च शाश्वतं प्रमाणम् अस्ति, सा च अस्मान् अन्यायस्य अत्याचारस्य च विरुद्धं दृढतया स्थितुं प्रेरयति। सः अग्रे अवदत् यत् अस्माकं सरकारः समाजस्य सर्वेषां वर्गाणां प्रति गुरु साहिबस्य महान् इतिहासं विरासतां च परिचाययितुं दृढसंकल्पा अस्ति।

---------------

हिन्दुस्थान समाचार