Enter your Email Address to subscribe to our newsletters

धौलपुरम्, 26 जनवरीमासः (हि.स.)।
धौलपुरजनपदे सप्तसप्ततितमः गणतन्त्रदिवसः श्रद्धया उल्लासेन च सम्यक् आचरितः। गणतन्त्रदिवसस्य जनपदस्तरीयः समारोहः आरएसी क्रीडाङ्गणे आयोजितः अभवत्, यत्र मुख्यातिथिः जनपदाधीशः श्रीनिधिः बी टी महोदयः राष्ट्रध्वजं तिरङ्गं समारोहत्। तेन ध्वजारोहणं कृत्वा मार्चपास्टस्य सलामी गृहीता, परेडस्य निरीक्षणं च कृतम्।
समारोहस्य अवसरे जनपदाधीशः श्रीनिधिः बी टी महोदयः स्वातन्त्र्यसंग्रामे योगदानं दत्तवद्भ्यः स्वातन्त्र्यसैनिकेभ्यः तथा संविधाननिर्मातृभ्यः नमनं कृत्वा अवदत् यत् अस्माकं देशः विश्वस्य सर्वाधिकं समृद्धं लोकतन्त्रं अस्ति। देशस्य स्वातन्त्र्याय अस्माकं महापुरुषैः स्वसर्वस्वं समर्पितम्, तेषां त्यागबलिदानयोः कारणेन अद्य वयं सर्वे लोकतन्त्रस्य मुक्तवायौ श्वसितुं शक्नुमः।
समारोहस्य मध्ये अतिरिक्तजनपदाधीशः हरिरामः मीणा महोदयः राज्यपालमहाभागस्य प्रदेशोद्देशीयं सन्देशं पाठित्वा श्रावितवान्। समारोहे विविधक्षेत्रेषु उत्कृष्टकार्यं कृतवद्भ्यः व्यक्तिभ्यः संस्थाभ्यश्च सम्मानः प्रदत्तः।
समारोहे विद्यालयीयबालकैः शारीरिकव्यायामस्य तथा सांस्कृतिककार्यक्रमाणां मनोहराः प्रस्तुतयः प्रदर्शिताः। कार्यक्रमस्य दौरान वन्दे मातरम् इति गीतस्य शतपञ्चाशत्तमवर्षपूर्णतायाः उपलक्ष्ये फलकविमोचनं कृत्वा वन्दे मातरम् गीतस्य सामूहिकं गायनं कृतम्।
समारोहे आरएसी षष्ठबटालियनस्य जवानैः साहसपूर्णानि हैरतअङ्गेजानि प्रदर्शनानि कृतानि। अस्मिन् अवसरें जनपदपुलीसअधीक्षकः विकासः सांगवानः, उपखण्डाधिकारी धौलपुर कर्मवीरः सिंहः, भाजपाजनपदाध्यक्षः राजवीरः सिंहः राजावतः, धौलपुरविधायिका शोभारानी कुशवाहा, भाजपानेता डॉ. शिवचरणः कुशवाहः, अन्ये अधिकारिणःकर्मचारिणः, गणमान्यनागरिकाः तथा मीडियाकर्मिणश्च उपस्थिताः आसन्।
मञ्चसञ्चालनं गोविन्दगुरुणा कृतम्। राष्ट्रगीतस्य गानेन कार्यक्रमस्य समापनं जातम्।
---------------
हिन्दुस्थान समाचार