Enter your Email Address to subscribe to our newsletters

बक्सरः, 27 जनवरीमासः (हि.स.)।
विश्वआर्द्रभूमिदिवसस्य अवसरे अहिरौलीस्थिते बिहारपब्लिकविद्यालये वनविभागेन चित्रलेखन-निबन्धप्रतियोगितायाः आयोजनं कृतम्। अस्यां प्रतियोगितायां विविधवर्गेषु स्थिताः पञ्चत्रिंशत् (३५) विद्यार्थिनः उत्साहपूर्वकं सहभागिता कृत्वा स्वकीयां सृजनात्मकप्रतिभां प्रदर्शितवन्तः।
अस्याः प्रतियोगितायाः मुख्योद्देश्यः विद्यार्थिनः आर्द्रभूमेः संरक्षणे, तस्याः महत्वे, जैवविविधतायाः सुरक्षायां तथा जलसंसाधनानां सततउपयोगे प्रति जागरूकान् कर्तुं आसीत्, येन भावीपीढ्यां प्रकृतिसंरक्षणस्य उत्तरदायित्वबोधः विकसितः भवेत्।
प्रतियोगितायां चयनिताः विद्यार्थिनो द्वितीयफेब्रुवरीतिथौ विश्वआर्द्रभूमिदिवसस्य अवसरॆ गोकुलजलाशये आयोजिते मुख्यकार्यक्रमे सम्मानिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार