Enter your Email Address to subscribe to our newsletters

अररिया 28 जनवरीमासः(हि.स.)। बिहारराज्यसर्वकारस्य सप्त निश्चय 3.0 योजनान्तर्गतं सप्त निश्चय सर्वेषां सम्मानः जीवनं सुकरम् इति कार्यक्रमस्य अधीनं डुमरिया पञ्चायते सुन्दरी ग्रामस्थिते उत्क्रमित मध्य विद्यालये कबीर कुट्टी टोला इत्यत्र बुधवारदिने प्रशासनं भवतः द्वारे इति कार्यक्रमस्य आयोजनं जिलाधिकारी विनोद दूहनस्य अध्यक्षतायां कृतम्। अस्मिन् कार्यक्रमे विधायकः विजयकुमार मण्डलः अपि सम्मिलितः अभवत्। सः जिला प्रशासनस्य एतां पहलां प्रशंसनीया इति अवदत्।
अस्य क्रमस्य अन्तर्गतं डुमरिया पञ्चायतस्य वार्ड क्रमाङ्के 08 नाला तथा मार्गनिर्माणसम्बन्धी शिकायतः जिलाधिकारीसमक्ष प्रस्तुताभवत्। तस्य आलोकने जिलाधिकारिणा त्वरितं कार्यवाहीं कृत्वा प्रखंड पञ्चायत राज पदाधिकारीं तथा ग्रामीण कार्य विभागस्य कार्यपालक अभियन्तारं आवश्यक निर्देशाः प्रदत्ताः।
तत्रैव उर्मिला देवीया मुख्यमंत्री वृद्धजन पेंशन योजनायै, संगीता देवीया मुख्यमंत्री परिवार लाभ योजनायै तथा मोहम्मद् समीरद्वारा इन्दिरा गान्धी राष्ट्रीय निःशक्त पेंशन योजनायै नवीन आवेदनं समर्पितम्। तथैव परिवादी ताराचन्द साहद्वारा परिमार्जनार्थं, प्रेमलाल पासवानद्वारा म्यूटेशनार्थं तथा राजकुमार साहद्वारा जमाबन्दी सुधारार्थं आवेदनानि दत्तानि।
एतदतिरिक्तं प्रशासनं भवतः द्वारे कार्यक्रमे भूमिसम्बन्धिन्यः, राशनसम्बन्धिन्यः, सामाजिक सुरक्षा पेंशनसम्बन्धिन्यः, शौचालय निर्माणसम्बन्धिन्यः च बहवः शिकायताः श्रुताः। अस्मिन् अवसरें जिलाधिकारिणा सर्वान् विषयान् गम्भीरतया स्वीकृत्य सम्बन्धित विभागान् नियमानुसारं परीक्षणं कृत्वा शीघ्रं शिकायतानां निष्पादनाय निर्देशाः दत्ताः।
कार्यक्रमं प्रति ग्रामीणजनानां मध्ये सकारात्मकः उत्साहः दृष्टः तथा जनाः जिलाधिकारिणः एतां पहलां प्रशंसां कृतवन्तः। अस्मिन् कार्यक्रमे सम्बन्धिताः जिला स्तरीय पदाधिकारिणः, प्रखंड स्तरीय सर्वे पदाधिकारिणः तथा डुमरिया पञ्चायतस्य जनप्रतिनिधयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार