इथियोपियायाः धावकः अजयत् बलियायाः मैराथनधावनस्पर्धाम्
बलिया, 28 जनवरीमासः (हि.स.)। बलियाजनपदे बुधवासरे आयोजितायां बाबू मैनेजरसिंह मैराथन प्रतियोगितायां इथियोपियादेशीयः धावकः फिरोनशा विजेता अभवत्। परिवहनमन्त्री दयाशंकरसिंहेन आयोजितायाः द्विचत्वारिंशत्किलोमीटरमितायाः मैराथनप्रतियोगितायाः उद्घाटनं प्रद
मैराथन का उद्घाटन करते खेल मंत्री गिरीश यादव


बलिया, 28 जनवरीमासः (हि.स.)।

बलियाजनपदे बुधवासरे आयोजितायां बाबू मैनेजरसिंह मैराथन प्रतियोगितायां इथियोपियादेशीयः धावकः फिरोनशा विजेता अभवत्। परिवहनमन्त्री दयाशंकरसिंहेन आयोजितायाः द्विचत्वारिंशत्किलोमीटरमितायाः मैराथनप्रतियोगितायाः उद्घाटनं प्रदेशसरकारस्य क्रीडामन्त्री गिरिशयादवेन कृतम्।

बलियास्थितात् वीरलोरिकक्रीडाङ्गणात् आरभ्य बैरियानगरे स्थितं बाबू मैनेजरसिंहस्मारकं यावत् आयोजितायां द्विचत्वारिंशत्किलोमीटरमितायां मैराथनधावने इथियोपियादेशीयः धावकः फिरोनशा प्रथमस्थानं प्राप्तवान्। मुजफ्फरपुरनगरस्य अक्षयकुमारः द्वितीयस्थानं, दिल्लीनगरस्य अमरेशप्रजापतिः तृतीयस्थानं, मध्यप्रदेशस्य सतनानगरस्य अभिषेकसोनी चतुर्थस्थानं, मुजफ्फरपुरस्य आकाशकुमारः पञ्चमस्थानं च प्राप्तवन्तः। प्रथमस्थानं प्राप्तवते फिरोनशाय द्विलक्षपञ्चविंशतिसहस्ररूप्यकाणां पुरस्कारराशिः प्रदत्ता।

पुरस्कारवितरणसमारोहं सम्बोधयन् क्रीडामन्त्री गिरिशयादवः अवदत्—मैराथनसदृशाः आयोजनाः युवेषु क्रीडाभावनां, अनुशासनं तथा स्वस्थजीवनशैलीं च प्रोत्साहयन्ति। क्रीडाः केवलं शारीरिकविकासस्य साधनं न, अपि तु मानसिकदृढता, आत्मविश्वासः तथा राष्ट्रनिर्माणे अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति। एतादृशैः आयोजनेभ्यः फिट् इण्डिया तथा खेलो इण्डिया इत्यादीनां अभियानानां नूतना ऊर्जा प्राप्यते।

अस्मिन् अवसरे भारतीयजनतापक्षस्य जनपदाध्यक्षः संजयमिश्रः, पूर्वमन्त्री नारदरायः, महिला आयोगस्य सदस्या सुनीताश्रीवास्तवा, पूर्वब्लॉकप्रमुखः गुड्डूरायः, जनपदमन्त्री अरुणसिंहबण्टू, कृष्णापाण्डेयः इत्यादयः गणमान्यजनाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार