बॉर्डर 2 इत्यस्य चलचित्रस्य अर्जनं पञचसु दिनेषु 200 कोटिमितरुप्यकेभ्यः पारंगतम्
सनीदेओलः वरुणधवनश्च अभिनीतायाः युद्धप्रधानायाः चलचित्रकथायाः ‘बॉर्डर् २’ इत्यस्य बॉक्स्-ऑफिसे दृढा पकड् अद्यापि विद्यमाना अस्ति। सप्ताहान्ते उत्कृष्टं प्रदर्शनं कृत्वा कार्यदिवसेषु यद्यपि आयेषु किञ्चित् न्यूनता दृष्टा, तथापि चलचित्रस्य आयः अद्यापि
सनी देओल - फोटो सोर्स एक्स


सनीदेओलः वरुणधवनश्च अभिनीतायाः युद्धप्रधानायाः चलचित्रकथायाः ‘बॉर्डर् २’ इत्यस्य बॉक्स्-ऑफिसे दृढा पकड् अद्यापि विद्यमाना अस्ति। सप्ताहान्ते उत्कृष्टं प्रदर्शनं कृत्वा कार्यदिवसेषु यद्यपि आयेषु किञ्चित् न्यूनता दृष्टा, तथापि चलचित्रस्य आयः अद्यापि स्थिरः प्रभावशाली च वर्तते। देशीयबॉक्स्-ऑफिसे अयं चलचित्रः द्विशतकोटिक्लबे स्वस्थानं प्राप्नोत्। अस्य चलचित्रस्य निर्देशनं अनुरागसिंहेन कृतम् अस्ति।

सैकनिल्क् इति प्रतिवेदनानुसारं, चलचित्रः प्रकाशनस्य पञ्चमे दिने अर्थात् मङ्गलवासरे २३.३१ कोटिरूप्यकाणां व्यापारं कृतवान्। एषः अङ्कः चतुर्थदिने प्राप्तायाः ६३.५९ कोटिरूप्यकाणां आयात् न्यूनः अस्ति, किन्तु अवकाशरहितदिवसस्य दृष्ट्या एषः उत्तमः सङ्ग्रहः मन्यते। अस्मात् पूर्वं चलचित्रे प्रथमदिने ३२.१० कोटिरूप्यकाणि, द्वितीयदिने ४०.५९ कोटिरूप्यकाणि, तृतीयदिने ५७.२० कोटिरूप्यकाणि च अर्जितानि। समग्रतया अधुनापर्यन्तं चलचित्रस्य देशीयसङ्ग्रहः २१६.७९ कोटिरूप्यकपर्यन्तं प्राप्तः।

देशभक्तिकथया सह सम्बद्धाः दर्शकाः

१९७१ तमे वर्षे भारत–पाकिस्तानयोः युद्धस्य पृष्ठभूमौ निर्मिता ‘बॉर्डर् २’ दर्शकानां हृदयानि स्पृशति। चलचित्रे देशभक्तिः, भावनाः, सशक्तं क्रियादर्शनं च सम्यग् सन्तुलितरूपेण प्रस्तुता, येन दर्शकाः सिनेमागृहाणि प्रति आकर्षिताः भवन्ति।

अस्मिन् चलचित्रे सनीदेओलः वरुणधवनः च अतिरिक्तं दिलजीतदोसांझः, अहानशेट्टी, मोनासिंह, आन्यासिंह, मेधारणाः तथा सोनमबाज्वा इत्यादयः कलाकाराः अपि महत्त्वपूर्णेषु पात्रेषु अभिनीतवन्तः।

--------------

हिन्दुस्थान समाचार