Enter your Email Address to subscribe to our newsletters

रांची, 28 जनवरीमासः (हि.स.)।
उपायुक्तः सह जिलादण्डाधिकारी मंजूनाथभजन्त्री मोराबादीस्थितस्य इण्डोर् बैडमिण्टन् क्रीडास्थलपरिसरात् अवैधाधिकारं त्वरितमेव निराकर्तुं निर्देशान् दत्तवान्। उपायुक्तेन सम्बन्धितान् अधिकारिणः निर्देशिताः यत् क्रीडास्थलपरिसराणां नियमितनिगरानी सुनिश्चितीक्रियताम्, तथा अवैधाधिकारस्य, नशापानस्य अथवा अनुशासनहीनतायाः सूचना प्राप्तमात्रेण एव त्वरितकार्यवाही क्रियते।
उपायुक्तः बुधवासरे क्रीडाकूदसम्बद्धानां विविधविषयाणां समीक्षार्थं आयोजितायां समीक्षात्मकबैठके अधिकारिणः सम्बोधयन् एतत् अवदत्। सः उक्तवान् यत् न केवलं मोरहाबादीस्थिते क्रीडास्थले, अपि तु रांचीजनपदस्य कस्यापि क्रीडास्थले अथवा क्रीडापरिसरे नशापानं, धूम्रपानं अथवा यत्किमपि अनुशासनहीनं कृत्यं कुर्वन्तः ये व्यक्तयः सन्ति, तेषां विरुद्धं कठोरा वैधानिकी कार्यवाही भविष्यति।
सः अवदत् यत् क्रीडास्थलानि क्रीडकेभ्यः अभ्यासस्य प्रतियोगितायाः च निमित्तं समर्पितानि स्थानानि सन्ति, यत्र अनुशासनस्य स्वच्छस्य च वातावरणस्य संरक्षणम् अत्यावश्यकम् अस्ति। कस्यापि प्रकारस्य अवैधक्रिया अथवा अतिक्रमणं क्रीडकानां भविष्याय क्रीडासंस्कृतेः च कृते अत्यन्तं घातकम् अस्ति।
तथा सः अवदत् यत् प्रशासनस्य उद्देश्यं क्रीडकानां कृते सुरक्षितं, स्वच्छं, अनुकूलं च वातावरणं उपलब्धं कर्तुं अस्ति, येन ते निष्कण्टकं प्रशिक्षणं प्राप्तुं शक्नुवन्ति तथा जनपदस्य नाम राज्यस्तरे राष्ट्रस्तरे च उज्ज्वलयितुं समर्थाः भवन्ति।
उपवेशने अनेके अधिकारिपदाधिकारिणः अन्ये च जनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार