विनोद कुमार शुक्लः प्रामाणिको रचनाकारः आसीत् - माधव कौशिकः
- साहित्य अकादेमी अकरोत् साहित्यकार विनोद कुमार शुक्लस्य स्मृतौ श्रद्धांजलि सभायाः आयोजनम् नव दिल्ली, 28 जनवरीमासः (हि.स.)।साहित्य-अकादम्या बुधवासरे प्रख्यातस्य कवि-कथाकारस्य तथा साहित्य-अकादेम्याः सदस्यस्य विनोदकुमार-शुक्ल महोदयस्य स्मृत्यर्थं
साहित्य अकादेमी में लेखक विनोद कुमार शुक्ल को श्रद्धांजलि देते हुए।


- साहित्य अकादेमी अकरोत् साहित्यकार विनोद कुमार शुक्लस्य स्मृतौ श्रद्धांजलि सभायाः आयोजनम्

नव दिल्ली, 28 जनवरीमासः (हि.स.)।साहित्य-अकादम्या बुधवासरे प्रख्यातस्य कवि-कथाकारस्य तथा साहित्य-अकादेम्याः सदस्यस्य विनोदकुमार-शुक्ल महोदयस्य स्मृत्यर्थं एका श्रद्धाञ्जलि-सभा आयोजिताऽभवत्।

अस्यां श्रद्धाञ्जलि-सभायां साहित्य-अकादम्याः अध्यक्षः माधव-कौशिकः, साहित्य-अकादेमी-हिन्दी-परामर्श-मण्डलस्य संयोजकः गोविन्द-मिश्र महोदयः, तथा च हिन्दी-परामर्श-मण्डलस्य अन्ये सदस्याः रामदेव-शुक्ल, सियाराम-शर्मा, उर्मिला-शिरीष, तुलसी-रमण, महादेव-टोप्पो, व्यासमणि-त्रिपाठी, देवसिंह-पोखरिया, ब्रजरतन-जोशी, पुखराज-जाङ्गिड च उपस्थिताः आसन्। अन्ये सदस्याः खेमसिंह-डहरिया, दिनेश-दधीचि, विकास-दवे तथा प्रत्युष-दवे सभायाम् अन्तर्जाल-माध्यमेन अपि उपस्थिताः आसन्।

साहित्य-अकादेम्याः अध्यक्षः माधव-कौशिक महोदयः चतुर्विंशति भारतीय-भाषाणां लेखकानां तर्फतः स्वश्रद्धाञ्जलिं समर्पयन् अवदत् यत् विनोदकुमार-शुक्ल महोदयः वस्तुतः महान् स्रष्टा आसीत्। सः परम्परागत-मार्गात् भिन्नां भाषां निर्माय तादृशं सर्जनात्मकं रूपं दत्तवान् येन सर्वे जनाः विशिष्टरीत्या प्रभाविताः। तस्य लेखनस्य वातायनं सदा उद्घाटितमेव स्थास्यति तथा च तस्य प्रकाशः सर्वेषां प्रति नित्यं प्रसारितः भविष्यति।

रामदेव-शुक्लः विनोदकुमार-शुक्लस्य लेखनं विशेषम् इति निरूपयन् अवदत् यत् तस्य लेखनं एतावद् विविधं श्रेष्ठं च आसीत् यत् पाठकानाम् अतिरिक्तं चलचित्र-निर्मातॄणामपि आकृष्टं कृतवान्।

तुलसी-रमणः तस्य हिमाचल-यात्रां स्मरन् अवदत् यत् तेन तस्य यात्रायां पञ्च कविताः रचिताः। दिनेश-दधीचि महोदयः तस्य सरलां दायितवपूर्णतां च चर्चयन् तस्य अद्वितीयां भाषाशैलीं स्मृत्वा तस्य योगदानम् अतुलनीयम् इति अवर्णयत्। खेमसिंह-डहेरिया तथा विकास-दवे महोदयौ तस्य रचनासु सामान्य-जनानां उपस्थितिं निरूपयन्तौ तं स्मृतवन्तौ।

महादेव-टोप्पो तस्य ध्यानाकर्षक-शीर्षकान् स्मरन् अवदत् यत् सः स्वपार्श्विकस्य जीवनं द्रष्टुं समर्थः आसीत्, अत एव तस्य कवितासु आदिवासी-जीवनस्य प्रचुरं दर्शनं भवति। सः लेखनस्य प्रेरणां दत्तवान्।

सियाराम-शर्मा महोदयः तं अप्रतिमं गद्यकारं स्मरन् अवदत् यत् सः साधारण-जनस्य अभावानपि महान् ऐश्वर्येण चित्रयितुं समर्थः आसीत्। सः छत्तीसगढ-प्रदेशस्य परिवेशं अत्यन्तं गहनतया ज्ञात्वा सम्यक् रूपेण प्रस्तुतवान्।

व्यासमणि-त्रिपाठी तस्य चित्रमयीं भाषां उल्लिख्य अवदत् यत् सः हिन्दी-साहित्यस्य साधकः आसीत् तथा च हिन्दी-समाजः तस्मै सदा ऋणी भविष्यति। देवसिंह-पोखरिया महोदयः शुक्लं युग-प्रवर्तकम् इति अवर्णयत्।

उर्मिला-शिरीषः तस्य जीवनस्य सादगीं स्मरन्ती अवदत् यत् तस्य मौनमेव तस्य शक्तिः आसीत्। तस्य लेखने न केवलं निम्न-मध्यवर्गीय-परिवारस्य अपितु स्थानीय-वन-भूमि-पशु-पक्षिणामपि सम्यक् चित्रणं दृश्यते। यथा सः अजीवत् तथा एव अलिखत्।

गोविन्द-मिश्रः तस्य अनेकान् संस्मरणान् सहकृत्य अवदत् यत् सः अस्माकं समयस्य तादृशः विशिष्टः रचनाकारः आसीत् यः प्रकाश-केन्द्रे आगमनं विना स्वस्य उत्कृष्टं सृजनं निरन्तरं कृतवान् तथा च स्वजीवन-शैलीं स्वलेखने सम्यक् रूपेण आरोपितवान्।

---------------

हिन्दुस्थान समाचार