Enter your Email Address to subscribe to our newsletters

कैथलम्, 28 जनवरीमासः (हि.स.)।
जनपदे मार्गेषु भ्रमन्तीनां गोवंशानां समस्यायाः समाधानाय शीघ्रमेव एकं गो-अभयारण्यं निर्मातुं निर्णयः कृतः। उपायुक्ता अपराजिता अवदत्—बेसहारपशूनां मार्गेभ्यः अपसारणं सर्वेषां सामूहिका उत्तरदायित्वं अस्ति, येन मार्गदुर्घटनाः निवारयितुं शक्यन्ते। तया पंचायतविभागस्य पशुपालनविभागस्य च अधिकारीभ्यः निर्देशाः दत्ताः यत् अस्य कार्यस्य कृते शीघ्रमेव उपयुक्ता भूमिः चिन्हिता भवतु।
उपायुक्ता बुधवासरे लघुसचिवालये स्थिते वीसी-कक्षे अधिकारीभिः सह उपवेशनं कुर्वती आसीत्। अस्मात् पूर्वं हरियाणाराज्यस्य कृषि–डेयरी–पशुपालन–मत्स्यपालनमन्त्री श्यामसिंहराणः अपि राज्यस्तरीयदूरसंवादमाध्यमेन अधिकारीभ्यः आवश्यकाः दिशा-निर्देशाः दत्तवान्।
बैठकानन्तरं उपायुक्ता अपराजिता अवदत्—मुख्यमन्त्रिणः नायबसिंहसैनीनः निर्देशानुसारं जनपदे एकं गो-अभयारण्यं स्थाप्यते, यत्र मार्गेभ्यः अपसारिताः गोवंशाः सुरक्षितरूपेण स्थापयितुं शक्यन्ते। तया अवदत् यत् पंचायतविभागः पशुपालनविभागश्च निर्देशितौ स्तः यत् कस्याञ्चन ग्रामस्य अन्तर्गतं न्यूनातिन्यूनं पञ्चाशत् एकडभूमिः अथवा ततोऽधिकं भूमिखण्डः चिन्हितः भवतु, यत्र गो-अभयारण्यस्य विकासः कर्तुं शक्यते।
अस्मिन् अभयारण्ये गोवंशाः मुक्तपरिसरे स्थाप्यन्ते, तथा तेषां चिकित्सोपचारस्य, तृण–जलव्यवस्थायाः, अन्येषां आवश्यकसुविधानां च समुचितव्यवस्था सुनिश्चितीक्रियते। सा अवदत् यत् नगरनिकायाः अपि अस्यां दिशायां प्रयत्नं कुर्वन्ति, किन्तु एतेषु प्रयत्नेषु अधिका गम्भीरता शीघ्रता च अपेक्षिता।
उपवेशने डीडीपीओ रितूलाठरः भूमिचिन्हीकरणसम्बन्धिनीं अद्यतनप्रगतिं निवेदितवती, अपि च पशुपालनविभागस्य एसडीओ डॉ. कृष्णकुमारः तथा डॉ. ओमप्रकाशः आवश्यकं विवरणं सहभागीकरणेन अवदताम्।
---------------
हिन्दुस्थान समाचार