उततरप्रदेशस्य 1700 नगर निगम कार्मिकेभ्यः 7500 नागरिकसुरक्षाविभागस्य स्वयंसेवकेभ्यः प्राप्स्यते आपदामित्रस्य प्रशिक्षणम्
लखनऊ, 28 जनवरीमासः (हि.स.)।उत्तरप्रदेशराज्यस्य आपदाप्रबन्धनप्राधिकरणस्य अपरमुख्यकार्यपालकाधिकारी तथा रक्षणायुक्तः डाॅ. हृषिकेषभास्करयशोदो राज्यस्य नगरनिगमक्षेत्रेषु घटिताभ्यः विविधाभ्यः आपदाभ्यः सम्भवन्तीनां क्षतीनां विषये प्रशिक्षणसम्बन्धिनः निर्द
प्रतीकात्मक फोटो।


लखनऊ, 28 जनवरीमासः (हि.स.)।उत्तरप्रदेशराज्यस्य आपदाप्रबन्धनप्राधिकरणस्य अपरमुख्यकार्यपालकाधिकारी तथा रक्षणायुक्तः डाॅ. हृषिकेषभास्करयशोदो राज्यस्य नगरनिगमक्षेत्रेषु घटिताभ्यः विविधाभ्यः आपदाभ्यः सम्भवन्तीनां क्षतीनां विषये प्रशिक्षणसम्बन्धिनः निर्देशान् दत्तवान्। अस्मिन् विषये बुधवासरे सः आपदाः न्यूनीकर्तुं तथा त्वरितप्रतिक्रियां दातुं उत्तरप्रदेशराज्यआपदाप्रबन्धनप्राधिकरणस्य माध्यमेन जनपदस्तरे नगरनिगमस्य कार्मिकान् आपदामित्ररूपेण प्रशिक्षयितुं निर्देशं दत्तवान्।

अपरमुख्यकार्यपालकाधिकारी अवदत् यत् आपदाप्रबन्धनसम्बद्धानां विविधकार्याणां कुशलसञ्चालने सहयोगप्रदानाय तथा नगरीयसमुदायस्य सशक्तीकरणाय नगरनिगमस्य कार्मिकान् आपदामित्रप्रशिक्षणं प्रदाय प्रथमप्रतिक्रियाकर्तारूपेण सज्जीकर्तुं निश्चितं कृतम्। एतेन आपदामित्ररूपेण प्रशिक्षितैः कार्मिकैः कस्यामपि आपात्कालीनआपदास्थितौ प्रथमप्रतिक्रियाकर्तारूपेण प्रभावी सहयोगः प्रदातुं शक्यते।

सः अवदत् यत् आपदाप्रबन्धनप्राधिकरणेन प्रदेशस्य समस्तेषु सप्तदशसु नगरनिगमेषु—आगरा, अलीगढम्, अयोध्या, बरेली, गाजियाबादं, गोरखपुरं, झांसी, कानपुरं, लखनऊ, मथुरा–वृन्दावनं, मेरठं, मुरादाबादं, प्रयागराजः, सहारनपुरं, शाहजहांपुरं, वाराणसी तथा फिरोजाबादं—प्रत्येकस्मिन् नगरनिगमे शतं–शतं कार्मिकान्, कुलं सप्तदशशतानि (१७००) कार्मिकान्, आपदामित्ररूपेण द्वादशदिवसीयेन आवासीयप्रशिक्षणेण प्रशिक्षयित्वा प्रत्येकस्मै एकाम् आपत्कालीनप्रतिक्रियासामग्रीं प्रदास्यते।

अपरमुख्यकार्यपालकाधिकारी अपि अवदत् यत् नगरनिगमस्य कार्मिकैः सह नागरिकसुरक्षाविभागस्य सक्रियान् वार्डन–स्वयंसेवकान् अपि आपदामित्रप्रशिक्षणं प्रदाय प्रथमप्रतिक्रियाकर्तृरूपेण सज्जीकर्तुं योजना अस्ति। सः सूचितवान् यत् प्रदेशस्य विभिन्नेषु जनपदेषु स्थापितस्य नागरिकसुरक्षाविभागस्य सप्तसहस्रपञ्चशतान् (७५००) सक्रियान् वार्डन–स्वयंसेवकान् आपदामित्ररूपेण प्रशिक्षिष्यते।

तथा सः अवदत् यत् एतत् प्रशिक्षणं राष्ट्रियआपदाप्रबन्धनप्राधिकरणेन, नवदिल्लीस्थेन, निर्धारितानां मानकानाम् अनुरूपं भविष्यति। आपदामित्रान्तर्गतं स्वयंसेवकानां चयनार्थं अनिवार्याणाम् अर्हतां तथा निर्धारितमानकानां कठोरतया अनुपालनं सुनिश्चेतुं सः निर्देशान् दत्तवान्। सः उक्तवान् यत् आपदामित्रप्रशिक्षणं अत्यावश्यकम् अस्ति, येन आपदाकाले प्रभावितजनानां त्वरितसहायता सुलभा भविष्यति।

---------------

हिन्दुस्थान समाचार