Enter your Email Address to subscribe to our newsletters

रायपुरम् 29 जनवरीमासः (हि.स.)। छत्तीसगढस्य मुख्यमंत्री विष्णुदेवसायः अद्य गुरुवासरे विभागीयोपवेशनेषु व्यस्तः भविष्यति। सः पूर्वाह्ने एकादशवादनात् अनन्तरं नवरायपुरस्थिते मंत्रालये महानदीभवने विविधविभागानां समीक्षोपवेशनं करिष्यति। तत्र विभागीयकार्याणां प्रगतिविषये चर्चा भविष्यति।
सायं पञ्चवादने मुख्यमंत्री रायपुरस्थिते न्यू सर्किट हाउसे ईप्रगतिविषये पत्रकारवार्तां करिष्यति। तदनन्तरं सायं पञ्चसार्धवादने मुख्यमंत्री निवासाय प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार