Enter your Email Address to subscribe to our newsletters

राञ्चीनगरम्, २९ जनवरीमासः (हि.स.)। झारखण्ड-विधानसभायां विपक्ष-नेता बाबूलाल मराण्डी राज्यवासिनां नाम्न: एकं व्यङ्ग्यात्मकं सन्देशं प्रेषयित्वा मुख्यमन्त्री हेमन्त-सोरेनं तस्य सर्वकारं च तीव्रतया आलोचितवान्। गुरुवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र प्रसारितेऽस्मिन् सन्देशे तेन न्याय-व्यवस्था, नागरिक-सुरक्षा, रोजगारः, स्वास्थ्य-व्यवस्था, कृषकाणां तथा आदिवासिनां स्थितिः इत्यादिषु विषयेषु राज्य-सर्वकारं बन्दीगृह स्थापितवान्।
मराण्डिना सन्देशे उक्तं यत् यदि कश्चन झारखण्ड-राज्ये निवसति, तर्हि मुख्यमन्त्रिणः सर्वकारात् वा कस्यापि प्रकारस्य नीतिः, न्यायः सुशासनं वा इत्येतेषाम् अपेक्षां त्यजतु। सः व्यङ्ग्येन अलिखत् यत् केवलं मुख्यमन्त्रिणः विदेश-यात्राणां तथा “शॉपिङ्-टूर्” इत्युच्यमानानां “सफलतायाः” अभिनन्दनं करणं न विस्मरेत्।
न्यार-व्यवस्थां प्रति गम्भीरान् आरोपान् आरोपयन् विपक्ष-नेता अवदत् यत् यदि कश्चन झारखण्डे निवसन् सफलतया व्यवसायं करोति, तर्हि सः सावधानो भवेत्, स्वपरिवारस्य सदस्यान् च गृहात् बहिर्गमनात् निरोद्धुं यत्नं कुर्यात्। तस्य आरोपः अस्ति यत् सर्वकारः नागरिकाणां सुरक्षायाः दायित्वं स्वीकर्तुं न इच्छति।
मराण्डिना उक्तं यत् राज्ये व्यवसायं कुर्वन्तः जनाः अपहरणस्य, धन-याचनायाः, दुष्टानां भयदोहनस्य च साक्षीभवन्ति, कदाचित् तु आरक्षकैः अपि भयभीताः भवन्ति।
कृषकाणां स्थितिं विषयीकृत्य सः अवदत् यत् कृषिकार्ये संलग्नाः जनाः निर्वाचन-काले दत्तेभ्यः न्यूनतम-समर्थन-मूल्य-वचनैः न्यूनमूल्येन स्वसस्यानि विक्रेतुं बाध्यन्ते। तेन आरोपितं यत् हेमन्त-सोरेन-सर्वकारेण पुनरपि कृषकाणां विश्वासः भग्न:। अपि च तेन उक्तं यत् कृषकैः स्वभूमिः “लुण्ठने लिप्त-मन्त्रिणाम्” उपरि दृष्टि: रक्षितव्या।
स्वास्थ्य-व्यवस्थां प्रति अपि मराण्डी अवदत् यत् यदि कश्चन झारखण्डे निवसन् स्वास्थ्य-समस्याभिः पीड्यते, तर्हि सः पूर्वमेव महतीं धनराशिं व्यवस्थापयेत्, यतः सर्वकारी-चिकित्सालयाः कदाचित् पतन्ति, औषधानि कदाचित् समाप्तानि भवन्ति, वायुवेग-यन्त्राणि (वेन्टिलेटर्) च प्रायः दोषयुक्तानि एव भवन्ति।
आदिवासी-समाज-संबद्धेषु विषयेषु भाषमाणः विपक्ष-नेता अवदत् यत् यदि कश्चन झारखण्डे निवसति तथा आदिवासी अस्ति, तर्हि शिक्षायाः अपेक्षां परित्यजतु, स्वभूमिनां रक्षणार्थं च अवैध-प्रवेशकैः सह निरन्तरं सङ्घर्षाय सिद्धो भवतु।
यूनां तथा प्रतियोगिता-परीक्षार्थिनां विषये मराण्डिना उक्तं यत् ते वर्षेभ्यः नियुक्तिनां प्रकाशनस्य प्रतीक्षां कुर्वन्तः भविष्यन्ति। कदाचित् आवेदनानि प्रकाश्यन्ते, कदाचित् तु निरस्तानि भवन्ति। सः व्यङ्ग्येन अवदत् यत् पुनः पुनः आवेदनं कर्तुं, रोजगारं क्रेतुं सामर्थ्यं धारयितुं, ततः परं वंचनानाम् आघातं सहनं कर्तुं च युवभिः सज्जैः भवितव्यम्।
हिन्दुस्थान समाचार / अंशु गुप्ता