Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २९ जनवरीमासः (हि.स.)। मुख्यमन्त्री डॉ.मोहन–यादवः अद्य (गुरुवासरे) मन्दसौर–जनपदस्य मल्हारगढ़–स्थले आयोजिते सोयाबीन–भावान्तर–राशि–भुगतान–कार्यक्रमे सहभागं करिष्यति। कार्यक्रमे मुख्यमन्त्री डॉ.यादवः चतुर्थ–पर्यायरूपेण प्रदेशस्य १ लक्ष १७ सहस्र कृषकाणां कृते प्रायः २०० कोटि रूप्यकाणां भावान्तर–राशेः प्रदानं करिष्यति।
जनसम्पर्क–अधिकारी लक्ष्मण–सिंहः अवदत् यत् एषा राशि: तेषां कृषकाणां कृते प्रदीयते ये २० दिसम्बरमासे २०२५ तमे वर्षे आरभ्य योजना–समाप्ति–पर्यन्तं सोयाबीनस्य विक्रयं कृतवन्तः। अद्यावधि प्रदेशस्य आहत्य ७ लक्ष १० सहस्रं कृषकाणां कृते १४९२ कोटि रूप्यकाणां भावान्तर–राशेः प्रदानं कृतम् अस्ति।
मल्हारगढ़े विकास–कार्याणाम् उपहार: –
६९.५० कोटि रूप्यकाणि
एतेन सह मुख्यमन्त्री डॉ.यादवः मन्दसौर–जनपदस्य मल्हारगढ़–स्थले ६९.५० कोटि रूप्यकाणां विकास–कार्याणां उपहारं दास्यति। तेषु— ५१.९१ कोटि रूप्यकाणां व्यये मन्दसौर–नीमच–राज्य–राजमार्गे स्थितस्य मल्हारगढ़–चतस्रपंक्ति–सेतो: भूमिपूजनम्, ५.५३ कोटि रूप्यकाणां व्यये पिपलिया–मण्डी–समपार–रेल–भूमिगत–सेतो; भूमिपूजनम्, तथा २.०६ कोटि रूप्यकाणां व्यये मल्हारगढ़–रेलवे–संस्थात्र–मार्गे सेतु–निर्माण–कार्यस्य लोकार्पणं च भविष्यति।
एतैः विकास–कार्यैः क्षेत्रे यातायात–सुविधा सुदृढा भविष्यति तथा सामान्यजना: आवागमने सुकरताम् अनुभविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता