Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 29 जनवरीमासः (हि.स.)।
गुवाहाटी तथा उत्तरगुवाहाटी इत्येतयोः संयोजकः बहुप्रतीक्षितः सेतुः आगामिनि 14 फरवरी-दिने जनसामान्याय उद्घाट्यते। अस्य षड्लेन्-युक्तस्य सेतोः उद्घाटनं प्रधानमन्त्रिणा क्रियते। बुधवासरस्य रात्रौ मुख्यमंत्री डॉ. हिमन्तबिस्वसरमा निर्माणकार्यस्य निरीक्षणं कृत्वा सज्जतायाः समीक्षणम् अकरोत्।
प्रायः 3000 कोटिरूप्यकव्ययेन निर्मितस्य अस्य सेतोः नाम ‘कुमारभास्करवर्मा सेतुः’ इति कृतम् अस्ति। निरीक्षणसमये मुख्यमन्त्रिणा उक्तं यत् गुवाहाटी–उत्तरगुवाहाटी संयोजकस्य अस्य सेतोः निर्माणे स्थानीयश्रमिकाणां महत्त्वपूर्णा भूमिका आसीत्। तेन उक्तं यत् अस्य पूर्वं बोगीबील सेतोः निर्माणम् अपि स्थानीयैः मिसिङ् युवकैः कृतम् आसीत्। असम-राज्ये केवलं बाह्यजनाः एव महानिर्माणकार्याणि कर्तुं शक्नुवन्ति इति धारणा एताभ्यां सेतुभ्यां पूर्णतया परिवर्तिता। अद्य असमस्य युवानः निर्माणक्षेत्रे स्वदक्षतां सामर्थ्यं च प्रमाणीकुर्वन्ति।
राजनीतिकप्रश्नानां विषये प्रतिक्रियां दत्वा मुख्यमन्त्री डॉ. सरमा उक्तवान् यत् असमगणपरिषद् (अगप) तथा भाजपायाः मध्ये स्थानविभाजनविषये काचित् समस्या नास्ति। तेन स्पष्टं कृतं यत् उभयोः दलयोः मध्ये स्थानविभाजनस्य विषये कश्चित् महान् परिवर्तनः न भविष्यति, न च तयोः मध्ये कस्यचित् प्रकारस्य संघर्षः अस्ति।
मुख्यमन्त्री एतदपि अभ्यधात् यत् आगामिषु निर्वाचनषु भाजपानेतृत्वयुक्तः गठबन्धनः विजयम् अवाप्स्यति। तेन उक्तं यत् विपक्षः भाजपां निरोद्धुं न शक्नोति तथा निर्वाचनपरिणामाः पूर्वमेव स्पष्टाः अभवन्।
हिन्दुस्थान समाचार