Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 जनवरीमासः (हि.स.)।
दिल्ली नगरस्य एकतृतीयांशजनसंख्यायुक्ते यमुनापारक्षेत्रे विकासगत्याः प्रभाविवृद्ध्यर्थं ट्रांस यमुनापार क्षेत्र विकासपरिषदा प्रभाविणः उपायाः गृहीताः। मुख्यमन्त्री रेखा गुप्ता इत्यस्याः अध्यक्षतायां आयोजितायां बोर्डस्य सभायां गुरुवासरे प्रायः सप्तशत अष्टाविंशति कोटि रूप्यकाणां योजनाः अनुमोदिताः। मुख्यमन्त्री उक्तवती यत् यमुनापारविकासाय वित्तस्य कापि न्यूनता न भविष्यति। तथा च बोर्डस्य सदस्येभ्यः निर्देशः दत्तः यत् आवश्यकताआधारेण योजनाः प्राथमिकतया स्वीकर्तव्याः।
दिल्ली सचिवालये आयोजितायां अस्यां सभायां मन्त्रिमण्डलमन्त्री कपिल मिश्रा यमुनापार क्षेत्र विकास बोर्ड अध्यक्षः विधायकः अरविन्दर सिंह लवली अन्ये बोर्ड सदस्याः च उपस्थिताः आसन्।
मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् ट्रांस यमुना क्षेत्रस्य विकासः दिल्ली सरकारस्य सर्वोच्चप्राथमिकतासु अन्तर्भूतः अस्ति। सर्वकारस्य लक्ष्यं यमुनापारक्षेत्रं इत्थं विकसितं कर्तुं यत् जनाः स्वयमेव अत्र आगन्तुं वसितुं च इच्छेयुः। सा उक्तवती यत् विकासकार्येषु सन्तुलनम् अत्यावश्यकम्। केवलं सौन्दर्यवर्धनं न अपितु नागरिकाणां मूलभूतआवश्यकताः यथा मार्गाः जलनिर्गमनव्यवस्था जलसञ्चयसमस्या सुरक्षितगमनागमनं च प्राथमिकतया दातव्यम्।
मुख्यमन्त्री चिन्तां व्यक्तवती यत् पूर्वसरकारस्य कार्यकाले बोर्डः पूर्णतया निष्क्रियः कृतः आसीत् येन यमुनापारविकासः पूर्णतया निरुद्धः अभवत् क्षेत्रवासिनः च महान् कष्टम् अनुभूतवन्तः। सा उक्तवती यत् बोर्डेन अनुशंसितानि सर्वाणि कार्याणि क्रियन्ते तेषां कृते वित्ताभावः कदापि न भविष्यति।
मुख्यमन्त्री आगामिनं वर्षाकालं दृष्ट्वा दुष्टमार्गाणां जलनिर्गमनव्यवस्थायाः जलसञ्चयसमस्यायाः च शीघ्रसमाधानाय आदेशान् दत्तवती। सा उक्तवती यत् येषु मार्गेषु प्रतिदिनं सहस्रशः जनाः गच्छन्ति तेषां मार्गाणां स्थितौ शीघ्रं सुधारः आवश्यकः यथा सामान्यजनाः असुविधाभ्यः दुर्घटनाभ्यः च रक्षिताः भवन्ति।
मन्त्रिमण्डलमन्त्री कपिल मिश्रा उक्तवान् यत् दीर्घकालपर्यन्तं यमुनापारक्षेत्रं विकासात् वञ्चितम् आसीत् यद्यपि अत्र जनसंख्या आवश्यकताः च निरन्तरं वर्धन्ते स्म। अधुना अस्य असन्तुलनस्य निवारणाय दृढप्रयत्नाः क्रियन्ते। सः उक्तवान् यत् यथा राष्ट्रमण्डलक्रीडासमये दिल्ली नगरस्य केषुचित् भागेषु आधारसंरचनाविकासः अभवत् तथा एव विकासः अधुना यमुनापारक्षेत्रे अपि क्रियते। मार्गेषु जलनिर्गमने सार्वजनिकसुविधासु पर्यटनसम्बद्धकार्येषु च विशेषध्यानं दास्यते यथा यमुनापारक्षेत्रं दिल्ली नगरस्य प्रमुखविकसितक्षेत्रेषु गणनीयम् भवेत्।
परिषदोऽध्यक्षः अरविन्दर सिंह लवली मुख्यमन्त्र्यै धन्यवादं व्यक्तवान् तथा उक्तवान् यत् यमुनापारक्षेत्रविकासाय सर्वैः विधायकैः प्रस्तुताः प्रस्तावाः अत्यन्तमहत्त्वपूर्णाः सन्ति। सः उक्तवान् यत् एषः सामूहिकप्रयत्नः यमुनापारक्षेत्रस्य मूलरूपपरिवर्तने सहायकः भविष्यति।
---------------
हिन्दुस्थान समाचार