उद्योग मंत्रिणोऽध्यक्षतायां बनेठ्यां सर्वकारो ग्रामद्वारे इति कार्यक्रमः आयोजितः
नाहनः, 29 जनवरीमासः (हि.स.)। उद्योगसंसदीयकार्यार्थ श्रमरोजगारमन्त्री हर्षवर्धन चौहानस्य अध्यक्षतायाम् अद्य नाहनविधानसभाक्षेत्रस्य ग्राम बनेठी इत्यत्र सर्वकारो ग्रामस्य द्वारे इति कार्यक्रमः आयोजितः। अस्मिन् अवसरे उद्योगमन्त्री उपस्थितं जनसमूहं स
उद्योग मंत्री की अध्यक्षता में बनेठी में सरकार गांव के द्वार कार्यक्रम हुआ आयोजित


नाहनः, 29 जनवरीमासः (हि.स.)।

उद्योगसंसदीयकार्यार्थ श्रमरोजगारमन्त्री हर्षवर्धन चौहानस्य अध्यक्षतायाम् अद्य नाहनविधानसभाक्षेत्रस्य ग्राम बनेठी इत्यत्र सर्वकारो ग्रामस्य द्वारे इति कार्यक्रमः आयोजितः।

अस्मिन् अवसरे उद्योगमन्त्री उपस्थितं जनसमूहं सम्बोध्य उक्तवान् यत् प्रदेशसरकारस्य प्राथमिकता अस्ति यत् जनानां समस्याः समयबद्धरूपेण पारदर्शितया च निराकर्तव्याः। एतस्य कृते प्रशासनस्य जनानां च मध्ये विद्यमानं अन्तरं न्यूनीकर्तुं सरकार ग्रामस्य द्वार इति महत्त्वाकाङ्क्षी कार्यक्रमः प्रदेशे सर्वत्र आयोजितः भवति।

तेन उक्तं यत् जिलासिरमौरमध्ये न्यूनविद्युतदाबस्य समस्याया निवारणार्थम् आरडीएसएस योजना अन्तर्गतं नवशतानि नवपञ्चाशत् च विद्युत्परिवर्तकाः स्थापिताः क्रियमाणाः सन्ति, येन जिल्लावासिनां न्यूनविद्युतदाबस्य समस्याया स्थायिनः समाधानं भविष्यति।

नाहनविधानसभाक्षेत्रस्य विधायकः अजय सोलंकी अपि सम्बोधनं कृत्वा उक्तवान् यत् प्रदेशेन सञ्चालितः सरकार ग्रामस्य द्वार कार्यक्रमः महत्त्वाकाङ्क्षी योजना अस्ति, यत्र जिल्लाधिकारीणः स्थले एव समस्याः निराकुर्वन्ति। विभागैः स्थापितप्रदर्शनानां माध्यमेन सरकारस्य विविधकल्याणकारी योजनानां जानकारी लाभश्च अपि प्रदीयते।

अस्मिन् कार्यक्रमे द्विनवतिः जनसमस्याः विकाससम्बद्धाः आग्रहाः च प्राप्ताः, येषां बहूनां स्थले एव निपटानं कृतम्। अतिरिक्ततया षट् इन्तकालकार्याणि, द्वे पञ्जीकरणकार्ये, एकपञ्चाशत् विविधप्रमाणपत्राणि, चतुर्दश एचआरटीसी उपदानकार्डानि अपि निर्मितानि।

कार्यक्रमस्य समये आधार शिविरः अपि स्थापितः, यत्र पञ्चविंशतिः आधारपत्राणि अद्यतनानि कृतानि नूतनानि च निर्मितानि। तथैव स्वास्थ्यविभागेन शतं जनानां स्वास्थ्यपरीक्षणं कृतम्, निःशुल्कौषधवितरणं कृतम्, त्रिचत्वारिंशत् जनानां क्षकिरण परीक्षणम् अपि कृतम्।

---------------

हिन्दुस्थान समाचार