Enter your Email Address to subscribe to our newsletters

नाहनः, 29 जनवरीमासः (हि.स.)।
भाजपा प्रदेश अध्यक्षः डा राजीव बिन्दलोऽद्य गुरुवासरे सन्तशिरोमणि गुरुरविदासजयन्तीपक्षकालस्य अन्तर्गतं नाहनविधानसभाक्षेत्रस्य अनुसूचितबस्तिषु मिश्रवाला सैनवाला हरिपुरखोल जामनीघाट च गत्वा गुरुरविदासेन देशाय समाजाय च दर्शितस्य दिव्यमार्गस्य स्मरणं कृत्वा राष्ट्रनिर्माणे तेषां योगदानं प्रकाशितवान्।
डा राजीव बिन्दल क्यारदा नाम स्थाने सन्तशिरोमणि गुरुरविदासस्य चित्रे पुष्पाणि समर्प्य तं प्रणम्य स्वप्रवासस्य आरम्भं कृतवान्। डा बिन्दल सैनवाला तथा हरिपुरखोल जामनीघाट इत्येतासु अनुसूचितबस्तिषु गत्वा गुरुरविदासेन दर्शितं समानता भक्तिआन्दोलन सामाजिकसमरसता च इत्यस्य मार्गं प्रकाशितवान् तथा समाजनिर्माणे तेषां दिव्ययोगदानं स्मारितवान्।
डा बिन्दल उक्तवान् यत् महान् सन्त गुरुरविदासस्य दिव्यमार्गदर्शनं योगदानं च देशेन समाजेन च सदा स्मरणीयं भविष्यति। तेन उक्तं यत् अस्माभिः महान् सन्त गुरुरविदासेन दर्शितः सामाजिकसमानता समरसता भ्रातृत्वभावः भक्तिभावमार्गः च स्वजीवने सदा आचरितव्यः। डा बिन्दल अवदत् यत् अद्य कार्यक्रमेषु जनहितसम्बद्धाः विविधाः स्थानीयसमस्याः अपि चिन्तिताः।
---------------
हिन्दुस्थान समाचार