उत्तराखंड: 544 नूतनेषु विद्यालयेषु शुभारप्स्यते व्यावसायिक पाठ्यक्रमः, अष्टसु क्षेत्रेषु लप्स्यते दक्षता
देहरादूनम्, 29 जनवरीमासः (हि.स.)। उत्तराखण्डसर्वकारेण समग्रशिक्षायोजनायाः अन्तर्गतं नवीनानां चतुश्चत्वारिंशदधिकपञ्चशतानां विद्यालयानां मध्ये व्यावसायिकशिक्षा सञ्चालने केन्द्रसर्वकारात् अनुमतिः प्राप्ता। एतेषु विद्यालयेषु छात्रेभ्यः परम्पराविषयैः सह
मंत्री  धन सिंह रावत।


देहरादूनम्, 29 जनवरीमासः (हि.स.)। उत्तराखण्डसर्वकारेण समग्रशिक्षायोजनायाः अन्तर्गतं नवीनानां चतुश्चत्वारिंशदधिकपञ्चशतानां विद्यालयानां मध्ये व्यावसायिकशिक्षा सञ्चालने केन्द्रसर्वकारात् अनुमतिः प्राप्ता। एतेषु विद्यालयेषु छात्रेभ्यः परम्पराविषयैः सह कृषि ऑटोमोटिव ब्यूटी एण्ड वेलनेस इलेक्ट्रॉनिक्स एण्ड हार्डवेयर सूचना प्रौद्योगिकी प्लम्बिंग रिटेल पर्यटन आतिथ्यसेवा इत्यादिषु अष्टसु व्यावसायिकक्षेत्रेषु प्रशिक्षणं प्रदास्यते।

विद्यालयीशिक्षामन्त्री डा धन सिंह रावत अवदत् यत् छात्रेभ्यः राष्ट्रीयकौशलयोग्यताचर्या अन्तर्गतं तृतीयचतुर्थस्तरयोः दक्षताप्रमाणपत्राणि प्रदास्यन्ते। अस्य कृते पञ्चशतानि अष्टचत्वारिंशत् प्रयोगशालाः स्थापिता एव सन्ति अनुभवीप्रशिक्षकाणां नियुक्तिः अपि निर्धारितमानदण्डानुसारं क्रियते।

अधुना प्रदेशे पञ्चशतानि एकत्रिंशत् विद्यालयेषु व्यावसायिकपाठ्यक्रमाः सञ्चाल्यन्ते येषु त्र्यधिकनवशतोत्तरपञ्चाशत्सहस्रं छात्रच्छात्राः पञ्जीकृताः सन्ति। अतिरिक्ततया अष्टाविंशतिः हब्स एण्ड स्पोक विद्यालयाः अपि सञ्चाल्यन्ते। द्वादशकक्षायाः प्रथमसमूहस्य छात्राणां कृते आयोजिते राज्यस्तरीय जीविकामेलापके एकशतं षट्चत्वारिंशत् छात्राः विविधासु कम्पनीयासु जीविकावसरान् प्राप्तवन्तः।

मन्त्री अवदत् यत् राज्यसर्वकारस्य उद्देश्यं छात्रेभ्यः परम्पराशिक्षया सह व्यावसायिकदक्षता प्रदाय तान् आत्मनिर्भरान् कर्तुम् अस्ति। तेन उक्तं यत् नवस्वीकृतविद्यालयेषु व्यावसायिकपाठ्यक्रमस्य शीघ्रसञ्चालनार्थं सर्वाः विभागीयऔपचारिकताः पूर्णाः कर्तुं निर्देशाः प्रदत्ताः सन्ति।

---

हिन्दुस्थान समाचार