Enter your Email Address to subscribe to our newsletters

कोलकाता, 03 जनवरीमासः (हि.स.)।पश्चिमबङ्गालयां मतदातृ-सूच्याः विशेषगहनपुनरीक्षणकाले दृष्टा या “तथ्यगत-असंगतिः” तस्याः संलग्नानां मतदातॄणां संख्यायां महानुच्छेदो जातः। निर्वाचनायोगेन शुक्रवारदिने निवेदितं यत् पूर्वं येषां १.३६ कोटि मतदातॄणां नामानि अस्मिन् वर्गे स्थापितानि आसन्, अधुना तेषां संख्याः न्यूनाभूत्वा ४९ सहस्रोत्तरचतुर्नवतिलक्षम् अभवन्। इत्यस्मात् सर्वेभ्यः ४१ लक्ष ५१ सहस्रस्य प्रकरणानां ह्रासः जातः। आयोगस्य स्रोतसां वचनम् यत् श्रवणप्रक्रियायाः समापनानन्तरं अपि एषा संख्या अधिकं न्यूनाभवितुम् अर्हति।
निर्वाचनायोगस्य मतम् अनुसारं “तथ्यगत-असंगतिः” इति तेषु प्रकरणेषु उपयुज्यते यत्र मतदातुः नाम्नि वा वयस्यां वा पारिवारिकविवरणेषु वा विचित्रत्वं दृश्यते। कतिपयेषु प्रकरणेषु नाम्नः साम्यं न लब्धम्। क्वचित् मतदाता तथा पितुः वयोः मध्ये पञ्चदशवर्षात् न्यूनतरं वा पञ्चाशद्वर्षात् अधिकतरं वा अन्तरं दृष्टम्। कतिपयेषु तु मतदाता तथा पितामहस्य वयोः मध्ये अपि असंगतिः प्रकटिता आसीत्। आयोगेन पूर्वं एतेषां प्रकरणानां संख्या १.६७ कोटि इति निर्दिष्टा आसीत्, पश्चात् सा १.३६ कोटि इति संशोधिताभूत्, अधुना तु ९४ लक्ष ४९ सहस्र इति निवेदिता अस्ति।
आयोगेन विस्तृताः सङ्ख्याः अपि प्रकाशिताः। एकस्य पुरुषस्य सह षट् मतदातॄन् संयोज्य दर्शितानि ये प्रकरणानि सन्ति ते २३ लक्षसंख्यकाः। नामानुपलब्धेः प्रकरणानि ५१ लक्षपर्यन्तं निरूपितानि। पितुः मतदातुः च वयोः मध्ये पञ्चदशवर्षात् न्यूनतरं अन्तरं ४ लक्ष ७४ सहस्रेषु प्रकरणेषु दृष्टम्। पञ्चाशद्वर्षात् अधिकतरं तु अन्तरं ८ लक्ष ४१ सहस्रेषु प्रकरणेषु लब्धम्। मतदातुः च पितामहस्य च वयोः असंगत्यः प्रकरणानि ३ लक्षानि सन्ति।
अस्य “तथ्यगत-असंगतिः” नाम्ना ज्ञायमानस्य सूचीसम्बन्धे तृणमूलकांग्रेस् इति दलः पूर्वमेव प्रश्नान् उदभवत्। दलस्य राष्ट्रियमहासचिवः अभिषेकबैनर्जी इत्यस्य आरोपः आसीत् यत् निर्वाचनायोगेन अधिकृतप्रेसविज्ञप्तिं विना एकस्मिन्नेव दिने मसौदामतदातासूची तथा तथाकथिता “तथ्यगत-असंगतिः” सूची कथं प्रकाशिते। तेन उक्तं यत् एषा सूची केवलं सन्देशमाध्यमैः एव वितरिता तथा तस्याः सर्वे प्रमाणाः तेषां निकटे सन्ति।
एतस्मिन्नेव काले आयोगेन “नो मापिंग्” इत्यस्य पश्चात् अधुना “प्रजनि मापिंग्” इत्यस्य सम्बन्धिनां मतदातॄणां श्रवणप्रक्रियां आरभितुं योजना कृताः। “प्रजनि मापिंग्” इति तेषु प्रकरणेषु प्रयुज्यते यत्र षट् अथवा अधिकानां मतदातॄणां पिता इति रूपेण एकस्यैव पुरुषस्य नाम प्रविष्टम्। अर्थात् एकस्यैव अभिभावकस्य नाम्नि षट् अथवा अधिकसंतानानां पृथक् पञ्जीकरणपत्राणि समर्पितानि सन्ति।
आयोगस्य स्रोतसां वचनम् यत् कतिपयेषु प्रकरणेषु शतम् अपि मतदातारः एकस्यैव पितुः नाम्ना सम्बद्धाः इति दर्शितम्। अस्मिन् वर्गे प्रायेण २४ लक्षमतदातारः अन्तर्भवन्ति। तान् श्रवणार्थं आमन्त्रयितुं नोटिसपत्राणि सज्जीकृतानि, शीघ्रमेव तेषां वितरणम् आरभ्यते।
हिन्दुस्थान समाचार