Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 30 जनवरीमासः (हि.स.)।
दिल्ल्याः मुख्यमन्त्री गुप्ता अद्य पार्क स्ट्रीट इलेक्ट्रीक रिसीविंग सब-स्थानकस्य (आरएसएस) इत्यस्य उद्घाटनं कृतवती। अयं इलेक्ट्रीक रिसीविंग सब-स्टेशन प्रमुखेषु मेट्रो कॉरिडोरेषु अविच्छिन्नां विद्युत्पूर्तिं सुनिश्चितं करिष्यति।
मुख्यमन्त्री एक्स इत्यत्र कृतायां प्रकाशितायां सूचनायां उक्तवती यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनो नेतृत्वे दिल्ली मेट्रो रेल कॉर्पोरेशन राजधानीनगरे निरन्तरं विश्वस्तरीयं सार्वजनिक परिवहन प्रणालीं सुदृढीकरोति। सा परिसरमध्ये वृक्षारोपणं कुर्वती विकासः पर्यावरणसंरक्षणं च सहसह गच्छेताम् इति संकल्पं पुनरपि उक्तवती।
अस्मिन् अवसरे दिल्ली मेट्रोस्य अधिकारिणः उपस्थिताः आसन्। उल्लेखनीयं यत् पार्क स्ट्रीट आरएसएस इत्यस्य निर्माणं मूलरूपेण 2010 तमे वर्षे दिल्ली मेट्रोस्य द्वितीयचरणकाले डीएमआरसी एयरपोर्ट लाइन तथा लाइन-6 (वायलेट लाइन) इत्येतयोः विद्युत्पूर्त्यर्थं कृतम्। 2021-22 कालखण्डे सेंट्रल विस्टा परियोजनायाः निर्माणं सुलभं कर्तुं एतत् अन्यत्र आरएसएस स्थाने स्थानान्तरितम्।
केंद्रीय लोक निर्माण विभागेन प्रदत्तायां वैकल्पिकभूमौ नूतनस्य आरएसएस इत्यस्य पुनर्निर्माणकार्यं 2023 तमे वर्षे आरब्धम्, यत् दिसंबर 2025 तमे मासे सम्पन्नम्। अस्मिन् इन्द्रप्रस्थात् आरके आश्रम मार्ग पर्यन्तं सेंट्रल विस्टा मेट्रो लाइन इत्यस्य विद्युतावश्यकतायाः सम्यक् विचारः कृतः।
सर्वाणि प्रमुखानि वर्तमानविद्युतोपकरणानि पुनः संस्थाप्य प्रचालितानि सन्ति, येषु 66 केवी पावर ट्रान्सफार्मर, 66 केवी जीआईएस पैनल, 33 केवी पैनल तथा 25 केवी जीआईएस पैनल अन्तर्भवन्ति। नूतनं संयुक्तं आरएसएस एयरपोर्ट लाइन तथा लाइन-6 इत्येतयोः मेट्रो रेलयानानां तथा स्थानकानां विद्युत्पूर्तिं करिष्यति।
तथैव आगामी सेंट्रल विस्टा मेट्रो लाइन (इन्द्रप्रस्थात् आरके आश्रम मार्ग पर्यन्तम्) इत्यस्य चरण-5ए विस्तारपरियोजनायाः अन्तर्गतं कर्षणविद्युतावश्यकतायै अतिरिक्ताः 25 केवी फीडर अपि प्रदत्ताः सन्ति।
नूतनस्य आरएसएस सुविधायाः निर्माणं नवीनतममानकानुसारं कृतम्, यस्मिन् उन्नतं सबस्टेशन ऑटोमेशन सिस्टम, ऊर्जासंरक्षकं वीआरएफ एयर कण्डीशनिंग तथा एलईडी प्रकाशव्यवस्था अन्तर्भवन्ति। उन्नतसुरक्षाव्यवस्थासु ट्रान्सफार्मर रक्षणार्थं स्वचालित अग्निसुरक्षा प्रणाली तथा पूर्णतया एड्रेसेबल फायर अलार्म प्रणाली अपि स्थापिता अस्ति।
नूतनं आरएसएस हरितभवनमानकानुसारं अभिकल्पितम् अस्ति तथा तस्य प्रमाणनार्थं आवेदनं कृतम्। अतिरिक्ततया संचालनस्थैर्यवृद्ध्यर्थं कार्बन उत्सर्जन न्यूनीकरणार्थं च सोलर रूफटॉप पावर सिस्टम स्थापयितुं योजना अस्ति।
केन्द्रसर्वकारस्य सेंट्रल विस्टा परियोजनायाः अन्तर्गतं पार्क स्ट्रीट आरएसएस इत्यस्य सम्पन्नता आधुनिकं सुरक्षितं च स्थायिभूतं च आधारभूतसंरचनां प्रति डीएमआरसी इत्यस्य प्रतिबद्धतायाः अन्यत् पदम् अस्ति, यत् दिल्ली मेट्रोस्य विस्तारितजालाय विश्वसनीयां विद्युत्पूर्तिं सुनिश्चितं करोति।
---------------
हिन्दुस्थान समाचार