Enter your Email Address to subscribe to our newsletters

रांची, 30 जनवरीमासः (हि.स.)।
संतोष कुमार गंगवार नाम राज्यपालः शुक्रवासरे राष्ट्रपितुः महात्मा गांधिनः पुण्यतिथौ रांची नगरे स्थिते लोक भवन मध्ये तस्य चित्रे माल्यार्पणं कृत्वा श्रद्धाञ्जलिं अर्पितवान्।
अस्मिन् अवसरे राज्यपालस्य अपरमुख्यसचिवः डॉ. नितिन कुलकर्णी सहित लोकभवनस्य अनेकाः अधिकारिणः कर्मचारीणः च पूज्यबापोः चित्रे पुष्पाञ्जलिं समर्प्य तं श्रद्धया स्मृतवन्तः। राज्यपालः अपि राष्ट्रपितुः महात्मा गांधी इत्यस्य पुण्यतिथौ तस्मै विनम्रां श्रद्धाञ्जलिं अर्पितवान्।
राज्यपालः सामाजिकमाध्यमे X इत्यत्र लिखितवान् यत् सः सत्य अहिंसा शान्ति च इत्येषां मार्गेषु चलित्वा सम्पूर्णविश्वाय मानवता करुणा च इत्ययोः सन्देशं दत्तवान्। तस्य विचाराः आदर्शाः च सदा सर्वान् प्रेरयिष्यन्ति।
---------------
हिन्दुस्थान समाचार