मध्यप्रदेश–प्रदेशस्य मुख्यमन्त्री डॉ.यादवः अद्य राज्य–स्तरीय–पुष्प–प्रदर्शिन्या: शुभारम्भं करिष्यति
भोपालनगरम्, ३० जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य शुक्रवासरे अपराह्णे ३ वादने कृषक–कल्याण–वर्ष–२०२६–अवसरे भोपाल–नगरे शासकीय–पाटल–उद्यानम्, लिंक–मार्ग–क्रमांक–१ इत्यस्मिन् आयोजितायाः राज्य–स्तरीय–पुष्प–प्रदर्शिन्या: शुभ
सीएम मोहन यादव (फाइल फोटो)


भोपालनगरम्, ३० जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य शुक्रवासरे अपराह्णे ३ वादने कृषक–कल्याण–वर्ष–२०२६–अवसरे भोपाल–नगरे शासकीय–पाटल–उद्यानम्, लिंक–मार्ग–क्रमांक–१ इत्यस्मिन् आयोजितायाः राज्य–स्तरीय–पुष्प–प्रदर्शिन्या: शुभारम्भं करिष्यति।

उद्यानिकी तथा खाद्य–प्रसंस्करण–मन्त्री नारायण–सिंह–कुशवाहेन उक्तम् यत् मुख्यमन्त्रिण: अनुसारं मध्यप्रदेशे वर्षे २०२६ कृषक–कल्याण–वर्षरूपेण मन्यते। पुष्प–उत्पादनं तथा उद्यानिकी–गतिविधिनां प्रवर्धनाय राज्य–स्तरीय–पुष्प–महोत्सव–२०२६ अद्य शासकीय–पाटल–उद्यानमध्ये आयोज्यते।

राज्य–स्तरीय–पुष्प–प्रदर्शिनीम् उद्यानिकी तथा खाद्य–प्रसंस्करण विभागः तथा मध्यप्रदेश–रोज़–सोसाइटी संयुक्तरूपेण आयोजयन्ति। अस्यां प्रदर्शिन्यां बहुवर्षीय–पुष्पाणि, ऋतु/वार्षिक–पुष्पाणि, कुण्डौषधय–पादपा:, कैक्टस–समूहः, बोन्साई–समूहः च पुष्प–प्रसंस्कृत–उत्पादानि अपि दर्शनीयानि भविष्यन्ति। प्रदर्शने पुष्प–उत्पादक–कृषकाः, पुष्प–विशेषज्ञाः, नर्सरी–उद्योगजाः, पुष्प–उत्पादक–संस्थानां प्रतिनिधयः, कृषि–विश्वविद्यालयस्य छात्राः तथा पुष्प–प्रेमिणः सहभागिन: भविष्यन्ति।

मन्त्रिणा कुशवाहेन उक्तम् यत् मध्यप्रदेशः पुष्प–उत्पादन–क्षेत्रे भारतदेशे द्वितीय–स्थानं वहति। प्रदेशे प्राय: ४५ सहस्र-हेक्टेयर–क्षेत्रे पुष्प–कृषि: क्रियते, यस्मिन् प्रतिवर्षं ५लक्ष मी.टन–पुष्प–उत्पादनं भविष्यति। प्रदेशे प्राय: ४० सहस्र–कृषकाः पुष्प–कृषिणा संलग्नाः सन्ति। राज्यस्य लक्ष्यम् एतत् यत् पुष्प–उत्पादनं व्यावसायिक–रूपेण विकस्य कृषक–आयः द्विगुणं करणम्।

मध्यप्रदेशं पुष्प–उत्पादन–क्षेत्रे अग्रणी–राज्यं कर्तुं शासनस्य लक्ष्यम् अस्ति। राज्ये यानि धार्मिक–स्थानानि तथा नगरेषु पुष्प–याचना अधिका अस्ति, तेषु निकटे पुष्प–उत्पादन–क्लस्टर–विकासाय कार्ययोजनाया: निर्माणं कृतम्। उद्यानिकी–विभागः सिंहस्थ–मेलापके २०२८ इत्यस्मिन् बृहत्तरावसररूपेण पश्यति। मुख्यमन्त्रिणा उज्जैननगरस्य निकटस्थे प्राय: १०० एकड–क्षेत्रे पुष्प–उत्पादन–विशेष–क्लस्टरं विकासयितुं प्रयत्नः कृतः।

प्रदेशस्य गुना–जनपदे लघु–कृषकाः पाटल–उत्पादनं क्रियते, यस्मात् भारत–विदेशयोः नूतना–परिचय: प्राप्त:। गुना–पाटलं दिल्ली, मुम्बई, बेंगलूरु सहितं विदेशेषु अपि प्रसिद्धम्। विभागेन पुष्प–उत्पादनं प्रधानमन्त्री–सूक्ष्म–खाद्य–उद्यम–उन्नयन–योजनया (PMFME) सह सम्बद्धं कृतम्। अनेकाः हितग्राही योजना: लाभं प्राप्य पुष्प–उत्पादानां व्यवसाय–क्षेत्रे संलग्नाः सन्ति।

पुष्प–प्रदर्शिनी–मुख्य–आकर्षणानि

प्रदेशे विभिन्न–जनपदेषु उत्पादितदुर्लभा:, आकर्षका: रंग–वर्णयुक्त–पुष्प–प्रजातयः तथा पुष्प–प्रसंस्कृत–उत्पादानि प्रदर्शिनीं शोभयिष्यन्ति। मुख्य–प्रकाराणि सन्ति—बहुवर्षीय–पुष्पाणि, ज़रबेरा, पाटलम्, गेंदा, सेवंती, रजनीगंधा, ग्लेडियोलस, ऑर्किड, लिलियम, एंथुरियम, कारनेशन, गुड़हल, बोगनवेलिया इत्यादयः। ऋतु/वार्षिक–पुष्पाणि : जीनिया, पैंजी, फ्लॉक्स, एस्टर, मेरीगोल्ड, जिरेनियम इत्यादयः। कुण्डौषधय–पादपा: : क्रोटन, ड्रैसीना, कोलियस, पाम, पर्पल–हार्ट/जीजस–हार्ट इत्यादयः। विशेष–श्रेणयः : कैक्टस–समूहः, बोन्साई–समूहः तथा पुष्प–प्रसंस्कृत–उत्पादानि।

कृषकाः एवं उद्यमिनः सम्मानिताः

पुष्प–उत्पादनं, शोभायमान–पादप–उत्पादनं तथा पुष्प–प्रसंस्करणे उत्कृष्ट–कार्यं कुर्वन्तः कृषकाः, उद्यमिनः च प्रदर्शिनी–अवसरे सम्मानिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता