महात्मनो गांधिनः पुण्यतिथौ ममता बनर्जी अददात् श्रद्धांजलिम्, एकतायाः समावेशितायाः च आदर्शान् स्मृतवती
कोलकाता, 30 जनवरीमासः (हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी शुक्रवासरे राष्ट्रपितुः महात्मा गान्धेः पुण्यतिथौ तस्मै श्रद्धाञ्जलिं अर्पितवती तथा तस्य एकता समावेशितायाश्च आदर्शान् स्मृतवती। प्रतिवर्षं ३० जनवरी दिने महात्मा गान्धेः पु
ममता


कोलकाता, 30 जनवरीमासः (हि.स.)।

पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी शुक्रवासरे राष्ट्रपितुः महात्मा गान्धेः पुण्यतिथौ तस्मै श्रद्धाञ्जलिं अर्पितवती तथा तस्य एकता समावेशितायाश्च आदर्शान् स्मृतवती।

प्रतिवर्षं ३० जनवरी दिने महात्मा गान्धेः पुण्यतिथिः देशव्यापि शहीद दिवस इति रूपेण आचर्यते। अस्मिन् अवसरे राष्ट्रं स्वातन्त्र्य शान्ति न्याय च प्राप्तुं गान्धीजीना दत्तं परमं बलिदानं स्मरति।

मुख्यमन्त्री ममता बनर्जी सामाजिकमाध्यममञ्चे ‘एक्स’ इति नाम्नि एकस्मिन् लेखे लिखितवती — “महात्मनो गान्धिनः पुण्यतिथौ तस्मै सादरं नमः। एकीकृतं समावेशितं च भारतं प्रति गान्धीजीना दृष्टः स्वप्न एव अस्माकं लोकतन्त्रस्य आत्मा अस्ति।”

तया उक्तं यत् राष्ट्रपित्रा प्रतिपादिताः मूल्याः अद्यापि भारतीय लोकतान्त्रिक व्यवस्थां दिशं दातुं तथा तां सुदृढां कर्तुं साहाय्यं कुर्वन्ति।

हिन्दुस्थान समाचार