पुलिस मुख्यालये राष्ट्रपितुः महात्मनो गांधिनः पुण्यतिथौ श्रद्धांजलिः अर्पितः
जयपुरम्, 30 जनवरीमासः (हि.स.)।राष्ट्रपितुः महात्मनो गांधिनः पुण्यतिथ्याः अवसरे शुक्रवासरे पुलिसमुख्यालये द्विमिनिटपर्यन्तं मौनं धारयित्वा तस्मै श्रद्धाञ्जलिः अर्पिता। पुलिसमहानिदेशकः राजीव कुमार शर्मा गान्धिनः प्रतिमायां पुष्पाणि अर्पितवान्। अतिरि
पुलिस मुख्यालय में राष्ट्रपिता महात्मा गांधी की पुण्यतिथि पर की  श्रद्धांजलि अर्पित


जयपुरम्, 30 जनवरीमासः (हि.स.)।राष्ट्रपितुः महात्मनो गांधिनः पुण्यतिथ्याः अवसरे शुक्रवासरे पुलिसमुख्यालये द्विमिनिटपर्यन्तं मौनं धारयित्वा तस्मै श्रद्धाञ्जलिः अर्पिता। पुलिसमहानिदेशकः राजीव कुमार शर्मा गान्धिनः प्रतिमायां पुष्पाणि अर्पितवान्।

अतिरिक्तपुलिसमहानिदेशकः वीके सिंह उक्तवान् यत् गान्धीजिनः प्रतिमायां पुष्पार्पणानन्तरं रामधुनी तथा गान्धीजिनः प्रियभजनानां गानं कृतम्। प्रातः 11 वादने डीजीपी सहित पुलिसमुख्यालयस्य वरिष्ठपुलिसअधिकारिणः कर्मचारिणश्च द्विमिनिटपर्यन्तं मौनं धारयित्वा श्रद्धाञ्जलिं अर्पितवन्तः।

अस्मिन् अवसरे अतिरिक्तमहानिदेशकपुलिस एस सेंगाथिर, हवा सिंह घुमरिया, रुपिन्दर सिंह, भूपेन्द्र साहू, बीजू जार्ज जोसेफ सहित पुलिसमुख्यालयस्य अन्ये वरिष्ठपुलिसअधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार