ललितपुर-सिंगरौली रेलवेविभागीया पंक्तिः विन्ध्यस्य विकास रेखा वर्तते : उप मुख्यमंत्री शुक्लः
- उप मुख्यमंत्री रेलवे परियोजनायाः कार्यं 2028 यावत्पूर्णीकर्तुं दत्तो निर्देशः भोपालम्, 30 जनवरीमासः (हि.स.) । मध्य प्रदेशस्य उपमुख्यमन्त्री राजेन्द्र शुक्ल शुक्रवासरे रीवा नगरस्य नवीनसर्किटहाउस सभागारे आयोजितायां सभायां ललितपुर–सिंगरौली रेलप
उप मुख्यमंत्री राजेन्‍द्र शुक्ल ने की ललितपुर-सिंगरौली रेल परियोजना की समीक्षा


- उप मुख्यमंत्री रेलवे परियोजनायाः कार्यं 2028 यावत्पूर्णीकर्तुं दत्तो निर्देशः

भोपालम्, 30 जनवरीमासः (हि.स.) । मध्य प्रदेशस्य उपमुख्यमन्त्री राजेन्द्र शुक्ल शुक्रवासरे रीवा नगरस्य नवीनसर्किटहाउस सभागारे आयोजितायां सभायां ललितपुर–सिंगरौली रेलपरियोजनायाः समीक्षाम् अकरोत्।

उपमुख्यमन्त्री शुक्ल उक्तवान् यत् ललितपुर–सिंगरौली रेलमार्गः विन्ध्यप्रदेशस्य विकासरेखा अस्ति। सीधी–सिंगरौली राजमार्गस्य तथा रेलपरियोजनायाः कार्यसमाप्त्या नवीनस्य औद्योगिकमार्गस्य विकासः भविष्यति। सिंगरौलीपर्यन्तं रेलमार्गसंयोगेन विन्ध्यप्रदेशः पूर्वोत्तरराज्यैः सह प्रत्यक्षतया सम्बद्धः भविष्यति। दूरगामिनीनां रेलयानानां संचालनात् गमनागमने सुविधा वर्धिष्यते, व्यापाररोजगारयोः अवसराः अपि वर्धिष्यन्ते।

निर्धारितलक्ष्यानुसारं 2028 वर्षपर्यन्तं सीधी–सिंगरौली तथा पन्ना–खजुराहो पर्यन्तं रेलमार्गनिर्माणकार्यं सर्वथा सम्पन्नं करणीयम्। 2026 वर्षस्य एप्रिलमासपर्यन्तं रीवा–सीधी स्टेशनपर्यन्तं निर्माणकार्यं सम्पन्नं करणीयम्, येन रेलयानस्य विस्तारः सीधीपर्यन्तं कर्तुं शक्येत्।

उपमुख्यमन्त्री उक्तवान् यत् अस्य रेलपरियोजनायाः सम्पन्नतया विन्ध्य तथा बुन्देलखण्डप्रदेशयोः आर्थिकविकासः तीव्रं भविष्यति। रेलविभागस्य प्रशासनस्य च अधिकारिणः समन्वयेन निर्माणकार्येषु विद्यमानाः बाधाः निवारयन्तु। रेलविभागस्य अधिकारिणः प्रत्येकसोमवासरे सीधी तथा सिंगरौली कलेक्ट्रेटकार्यालययोः आयोजितायां टीएल-सभायां उपस्थिताः भूअर्जनसम्बद्धप्रकरणानां समाधानं कुर्वन्तु।

कलेक्टराः प्रत्येकसप्ताहे परियोजनाकार्याणां समीक्षा कुर्वन्तु। कृषकहितं दृष्ट्वा भूअर्जनकार्यं शीघ्रं सम्पादयन्तु। सीधी–गजरही क्षेत्रे भूअर्जनकार्यं सम्पन्नम् अस्ति। गजरहीतः गोपदनदीपर्यन्तं तथा सिंगरौलीपर्यन्तं भूअर्जनकार्यं शीघ्रं सम्पन्नं करणीयम्।

पश्चिम मध्य रेलवे इत्यस्य महाप्रबन्धका शोभना बंदोपाध्याय उक्तवती यत् 31 मार्चपर्यन्तं सीधी रेलमार्गकार्यं सम्पन्नं कर्तुं लक्ष्यं निर्धारितम् अस्ति। प्रशासनिकसमन्वयेन कार्यं तीव्रगत्या प्रवर्तते। गोपदनदीतः सिंगरौलीपर्यन्तं भूअर्जनकार्यं प्रवर्तमानम् अस्ति। सिंगरौलीपर्यन्तं रेलमार्गनिर्माणकार्यं 2028 वर्षस्य दिसम्बरमासपर्यन्तं सम्पन्नं भविष्यति।

सतना–सकरिया (पन्ना) क्षेत्रे मार्चमासपर्यन्तं रेलपथस्थापनं भविष्यति। पन्नातः अजयगढ तथा अजयगढतः खजुराहो पर्यन्तं रेलपथनिर्माणे प्रायः अष्टादशमासानां समयः अपेक्षितः। अत्र अद्यापि वनविभागात् अनुमतिः न प्राप्ता।

महाप्रबन्धकया उक्तं यत् पश्चिममध्यरेलवे क्षेत्रं 2024–25 वर्षे उत्कृष्टकार्येभ्यः सम्मानरूपेण गोविन्दवल्लभपन्तशील्ड् प्राप्तवती।अस्यां सभायां जनार्दन मिश्र, अन्ये प्रशासनिकाधिकारिणः, रेलविभागस्य वरिष्ठाधिकारिणः, एसडीएम अधिकारिणः तथा विभागीयाधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार