Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, ३० जनवरीमासः (हि.स.)। राष्ट्रपितुः महात्मा–गान्धिनः पुण्यतिथ्यवसरे शुक्रवासरे द्वि–निमेष–पर्यन्तं सामूहिकं मौनम् आचरितम्। जयपुर–जनपद–कलेक्ट्रेट–परिसरे शुक्रवासरे प्रातः ११ वादनात् ११ वादन–०२ निमेष–पर्यन्तं अधिकारिणः कर्मचारिणश्च सामूहिकं मौनं धृत्वा राष्ट्रपितरं महात्मा–गान्धिनं प्रति श्रद्धाञ्जलिं समर्पितवन्तः।
अस्मिन् अवसरे जयपुर–जनपदस्य जनपदाधीशः डॉ.जितेन्द्र–कुमार–सोनी, अतिरिक्त–जनपद–उपायुक्त: (प्रथमः) विनीता–सिंह:, अतिरिक्त–जनपद–उपायुक्त: (द्वितीयः) मेघराज–मीणा, अतिरिक्त–जनपद–उपायुक्त: (चतुर्थः) आशीष–कुमारः, अतिरिक्त–जनपद–उपायुक्त: (उत्तरः) मुकेश–कुमार–मूण्डः, अतिरिक्त–मुख्य–कार्यकारी–अधिकारी शेर–सिंह–लुहाड़िया, उपखण्ड–अधिकारी जयपुर–प्रथमः राजेश–जाखड़ः, उपखण्ड–अधिकारी जयपुर–उत्तरः दीपक–खटाना, सहायक–कलक्टरः सरिता–शर्मा तथा अन्ये जनपद–स्तरीयाः अधिकारिणः कर्मचारिणश्च सामूहिक–मौन–कार्यक्रमे उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता