Enter your Email Address to subscribe to our newsletters

जयपुरम्, 30 जनवरीमासः (हि.स.)।
भारतीयजनतायुवमोर्चा इत्यस्य नवनियुक्तः प्रदेशाध्यक्षः शंकर गोरा शुक्रवासरे औपचारिकरूपेण पदभारं स्वीकृतवान्। अस्मिन् अवसरे भारतीय जनता पार्टी प्रदेशाध्यक्षः मदन राठौड़ तस्मै पदस्य उत्तरदायित्वं समर्पितवान्। भाजपा प्रदेशकार्यालयस्य बहिः आयोजिते अस्मिन् समारोहेमहता सङ्ख्यया दलपदाधिकारी, जनप्रतिनिधयः युवा कार्यकर्तारश्च उपस्थिताः आसन्।
पदभारग्रहणसमारोहं सम्बोधयन् भाजपा प्रदेशाध्यक्षः मदन राठौड़ उक्तवान् यत् भारतीयजनतापक्षः देशस्य एकमेव राजनैतिकदलम् अस्ति, यत्र सामान्यः कार्यकर्ता अपि संगठनस्य माध्यमेन उच्चपदानि प्राप्नोति। सः नरेंद्र मोदी उदाहरणं दत्त्वा अवदत् यत् साधारणकार्यकर्तुः पदात् आरभ्य मुख्यमन्त्रिपदं ततो प्रधानमन्त्रिपदं यावत् यात्रा भाजपा कार्यसंस्कृतिम् दर्शयति।
नवनियुक्तः प्रदेशाध्यक्षः शंकर गोरा स्वसम्बोधने उक्तवान् यत् भाजयुमो आगामिषु पञ्चायतीराज तथा नगरीयनिकायनिर्वाचनेषु पूर्णशक्त्या सहभागित्वं करिष्यति। युवानां भूमिका केवलं निर्वाचनपर्यन्तं सीमिता न भविष्यति, अपि तु शासनस्य योजनाः जनजनपर्यन्तं प्रापयितुं भाजयुमो अग्रणी भूमिका वहिष्यति।
शंकर गोरा कांग्रेसशासनकालं लक्ष्यीकृत्य अवदत् यत् पूर्वसरकारकाले 19 वारं प्रश्नपत्रप्रसारणदोष (पेपरलीक) इव घटनाः अभवन्, येन लक्षशः युवानां भविष्यः प्रभावितः अभवत्। सः अवदत् यत् प्रधानमन्त्रिणः नरेंद्र मोदी नेतृत्वे दोषिणां विरुद्धं कठोरकार्यम् क्रियते तथा अद्य बहवः आरोपिताः कारागारे सन्ति। एतत् शासनस्य नीयतिं नीतिं च दर्शयति।
भाजपा प्रदेशाध्यक्षः मदन राठौड़ राजस्थानराज्ये डबलइञ्जिनशासनस्य उपलब्धीनां उल्लेखं कृत्वा अवदत् यत् राज्ये तीव्रगत्या विकासकार्याणि प्रचलन्ति। ईआरसीपी योजना, यमुनाजलसहमतिः, कृषकाणां दिवासमये विद्युत्प्रदानम्, प्रश्नपत्रप्रसारणनियन्त्रणम्, राइजिंग राजस्थान माध्यमेन निवेशवृद्धिः, रेलमार्ग-सड़क-नहर-ग्रामविकाससम्बद्धकार्याणि प्रमुखाः उपलब्धयः सन्ति इति सः उक्तवान्।
पदभारग्रहणानन्तरं शंकर गोरा उक्तवान् यत् भाजपा राष्ट्रियस्तरे युवा नेतृत्वं अग्रे स्थाप्य स्पष्टसन्देशं दत्तवती यत् दलस्य भविष्यं युवानां हस्तेषु अस्ति। आगामिषु पञ्चायत, नगरीयनिकाय, विधानसभासंसदनिर्वाचनेषु भाजयुमो भूमिका निर्णायिका भविष्यति इति सः विश्वासं व्यक्तवान्।
कार्यक्रमे उपस्थितैः वरिष्ठनेतृभिः कार्यकर्तृभिश्च नूतनप्रदेशाध्यक्षाय अभिनन्दनं कृतम् तथा तस्य नेतृत्वे संगठनं अधिकं सुदृढं भविष्यति, युवानां दलसम्बन्धोऽपि वर्धिष्यते इति आशा व्यक्ता।
---------------
हिन्दुस्थान समाचार