शहीद-दिवसे मुख्यमन्त्री भजनलाल-शर्मणा महात्मा–गान्धेः प्रतिमायां श्रद्धासुमनानि अर्पितानि
जयपुरनगरम्, ३० जनवरीमासः (हि.स.)। राष्ट्रपितुः महात्मा–गान्धिनः पुण्यतिथ्यवसरे (शहीद-दिवसे) मुख्यमन्त्री भजनलाल–शर्मा शुक्रवासरे प्रातः शासन–सचिवालयं प्राप्तवान्। सचिवालये स्थितायां महात्मा–गान्धेः प्रतिमायां पुष्पाणि अर्पयित्वा सः तं सादरं नतवान्।
शहीद दिवस: मुख्यमंत्री  भजनलाल शर्मा ने महात्मा गांधी जी की प्रतिमा पर श्रद्धासुमन किए अर्पित


जयपुरनगरम्, ३० जनवरीमासः (हि.स.)। राष्ट्रपितुः महात्मा–गान्धिनः पुण्यतिथ्यवसरे (शहीद-दिवसे) मुख्यमन्त्री भजनलाल–शर्मा शुक्रवासरे प्रातः शासन–सचिवालयं प्राप्तवान्। सचिवालये स्थितायां महात्मा–गान्धेः प्रतिमायां पुष्पाणि अर्पयित्वा सः तं सादरं नतवान्।

मुख्यमन्त्रिणा राष्ट्रपितरं महात्मा–गान्धिनं तथा बलिदानिन: प्रति द्वि-निमेष-पर्यन्तं मौनं धृत्वा श्रद्धाञ्जलिः समर्पिता। ततः उपस्थितैः सह गान्धि–प्रतिमायाः पुरतः उपविश्य ‘वैष्णव-जन-तो-तेने-कहिये’, ‘रघुपति-राघव-राजा-राम’, ‘राम-रतन-धन-पायो’, ‘श्री-राम-जय-राम’ इत्यादीनि गान्धि-प्रियाणि भजनानि श्रुतानि।

अस्मिन् अवसरे पशुपालन–देवस्थान–मन्त्री जोराराम–कुमावतः, मुख्य–सचिवः वी.–श्रीनिवासः, विविध–विभागानां अतिरिक्त–मुख्य–सचिवाः, प्रमुख–शासन–सचिवाः, शासन–सचिवाः, सचिवालय–कर्मचारी–सङ्घस्य पदाधिकारिणः तथा अधिकारिणः–कर्मचारिणश्च मौनं धृत्वा बापुं प्रति श्रद्धाञ्जलिं समर्पितवन्तः।एतस्मात् पूर्वं मुख्यमन्त्रिणा शहीद-दिवसस्य अवसरे मुख्यमन्त्री–निवासे महात्मा–गान्धिन: चित्रे पुष्पाणि अर्पयित्वा सः तं नतवान्। तत्र मुख्यमन्त्री–कार्यालयस्य अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता