बीएलओ आउटरीच अभियानात् पूर्वस्मिन् चरणे 75प्रतिशतं मतदातृणां गणना पूर्णा
देहरादूनम्, 30 जनवरीमासः (हि.स.)। उत्तराखण्डप्रदेशे प्री एसआईआर क्रियाकलापानाम् अन्तर्गतं बीएलओ आउटरीच अभियानं संचालितं भवति। अस्य अभियानस्य प्रथमचरणे प्रदेशस्य पञ्चसप्ततिशतं मतदातॄणां मानचित्रणकार्यं सम्पन्नं कृतम्। एतां सूचनां अपर मुख्य निर्वाच
अपर मुख्य निर्वाचन अधिकारी डॉ. विजय कुमार जोगदंडे पत्रकारों से बातचीत करते हुए।


अपर मुख्य निर्वाचन अधिकारी डॉ. विजय कुमार जोगदंडे पत्रकारों से बातचीत करते।


देहरादूनम्, 30 जनवरीमासः (हि.स.)।

उत्तराखण्डप्रदेशे प्री एसआईआर क्रियाकलापानाम् अन्तर्गतं बीएलओ आउटरीच अभियानं संचालितं भवति। अस्य अभियानस्य प्रथमचरणे प्रदेशस्य पञ्चसप्ततिशतं मतदातॄणां मानचित्रणकार्यं सम्पन्नं कृतम्। एतां सूचनां अपर मुख्य निर्वाचन अधिकारी डॉ. विजय कुमार जोगदंडे शुक्रवासरे सचिवालयस्थिते मीडिया केन्द्रे पत्रकारेभ्यः दत्तवान्।

अपर मुख्य निर्वाचन अधिकारी डॉ. जोगदंडे अवदत् यत् प्रदेशस्य सर्वेषु सप्ततिः विधानसभाक्षेत्रेषु बीएलओ, ईआरओ तथा सम्पूर्णया निर्वाचनयन्त्रणा द्वारा मतदातृभ्यः समीपगमनं, समन्वयः, संवादस्थापनं च इत्यर्थं अयं अभियानः सञ्चाल्यते। प्रथमचरणे मतदातृमानचित्रणकार्यं उत्साहेन सम्पन्नं जातम्।

अपर मुख्य निर्वाचन अधिकारी उक्तवान् यत् बीएलओ आउटरीच अभियानस्य द्वितीयचरणः फरवरी मासस्य प्रथमदिनात् आरभ्य 15 फरवरी 2026 पर्यन्तं चलिष्यति। अस्मिन् चरणे युवा तथा महिला मतदातॄणां मानचित्रणे विशेषः ध्यानः दास्यते।

सः अवदत् यत् प्री एसआईआर चरणस्य अन्तर्गतं प्रदेशस्य वर्तमान मतदाता सूची 2003 वर्षस्य मतदाता सूच्या सह मानचित्रिता क्रियते। मतदातॄणां सुविधार्थं 2003 वर्षस्य मतदाता सूची उत्तराखण्ड मुख्य निर्वाचन अधिकारी इत्यस्य आधिकारिक जालपुटे उपलब्धा कृता अस्ति, यत्र मतदातारः स्वस्य विधानसभाक्षेत्रस्य नाम्ना, स्वनाम्ना, पितुः वा पत्युः नाम्ना च मतदाता क्रमाङ्कं तथा बूथ संख्या इत्यस्य सूचना प्राप्तुं शक्नुवन्ति।

अतिरिक्ततया गलिनाम्ना, मोहल्लानाम्ना तथा क्षेत्रनाम्ना अपि अन्वेषणसुविधा उपलब्धा अस्ति।

अस्मिन् समये अपर मुख्य निर्वाचन अधिकारी अवदत् यत् प्रदेशस्य मान्यताप्राप्त राष्ट्रिय राजनैतिक दलानि प्रति बूथ लेवल एजेन्ट (बीएलए) नियुक्तुं अनुरोधः कृतः। वर्तमानसमये प्रदेशे द्वादशसहस्रं सप्ततिः (12,070) बीएलए नियुक्ताः सन्ति। तेन राजनैतिक दलान् प्रति शतप्रतिशतं बीएलए नियुक्तुं अपि आह्वानं कृतम्।

हिन्दुस्थान समाचार