Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 31 जनवरीमासः (हि.स.)।पूर्वाञ्चल-क्षेत्रे जनसेवा-स्वास्थ्यसेवयोः समर्पिता त्रयोविंशतितमा धन्वन्तरि-सेवा-यात्रायाः उद्घाटन-कार्यक्रमः प्रथम-फरवरी-दिने सायं पञ्चवादन-अर्धघटिकायां सेवा-भारती-जनजाति-छात्रावासे, आदिंगिरि-कनकलता-पथे, दुर्गा-सरोवर-निकटे मालीग्रामे आयोजितः भविष्यति।
आयोजन-समितेः पदाधिकारिणः अद्य अवदन् यत् अस्मिन् अवसरॆ असम-राज्यस्य राज्यपालः लक्ष्मण-प्रसाद-आचार्य-महोदयः मुख्य-अतिथिरूपेण उपस्थितः भविष्यति। कार्यक्रमे विशिष्ट-अतिथिरूपेण नयी-दिल्ली-स्थितस्य अग्रवाल-पैकर्स्-एण्ड्-मूवर्स्-संस्थायाः अध्यक्षः रमेश-अग्रवाल-महोदयः सहभागं करिष्यति। तथैव मुख्य-वक्तारूपेण राष्ट्रिय-स्वयंसेवक-संघस्य अखिल-भारतीय-सेवा-प्रमुखः पराग-अभ्यंकर-महोदयः मार्गदर्शनं प्रदास्यति।
उल्लेखनीयं यत् वर्षे २००५ तमे आरब्धा एषा सेवा-यात्रा अस्मिन् वर्षे त्रयोविंशतितमे संस्करणे प्रवेशं करोति। अस्यां यात्रायां देशस्य विविधभागेभ्यः तथा पूर्वाञ्चल-क्षेत्रात् शताधिकाः चिकित्सकाः पञ्चसप्तत्यधिकाश्च चिकित्साशास्त्र-छात्राः सहभागिताṃ करिष्यन्ति, ये ग्रामीण-सेवाप्रवण-क्षेत्रेषु स्वास्थ्य-सेवाः प्रदास्यन्ति।
एषा सेवा-यात्रा सेवा-भारती-पूर्वाञ्चल, नेशनल्-मेडिकोज्-ऑर्गेनाइजेशन् तथा आयुर्वेदिक्-मेडिकल्-ऑर्गेनाइजेशन् इत्येतयोः संयुक्त-तत्त्वावधानं अन्तर्गतं आयोजिताऽस्ति। पूर्वाञ्चलस्य सप्तसु राज्येषु द्विपञ्चाशत्-जिलेषु एकस्मिन् काले पञ्च-दिवसात्मकानि स्वास्थ्य-जागरण-कार्यक्रमाः तथा स्वास्थ्य-चिकित्सा-शिविराणि सम्पन्नानि भविष्यन्ति।
स्वागत-समितेः अध्यक्षः रिपोज्-उद्योग-समूहस्य प्रमुखः अनुपम-डेका-महोदयः तथा अन्ये सदस्याः अस्याः यात्रायाः सफलतायै निरन्तरं प्रयासं कुर्वन्ति।
हिन्दुस्थान समाचार