Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३१ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य राजधान्या: भोपालनगरस्य पाटल–उद्यानस्थले आयोजितायां त्रिदिवसीय–राज्य–स्तरीय–पुष्प–प्रदर्शिन्याम् अद्य शनिवासरे प्रातः प्रायः एकादशवादनात् “सेंसर–आधारित–स्वचालित–उर्वरक–सिंचन–प्रणाली”-विषये कार्यशालायाः आयोजनं क्रियते।
जनसम्पर्क–अधिकारी अनिल–वशिष्ठः सूचनां प्रयच्छन् अवदत् यत् अस्यां कार्यशालायां विषय–विशेषज्ञाः फर्टीगेशन–प्रणाल्या विषये कृषकेभ्यः नवीन–प्रौद्योगिकीसम्बद्धां सूचनां प्रदास्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता