मध्यप्रदेशे देशस्य विशालतमासु प्रतिमासु एका गुढस्थाने शयन–मुद्रायां स्थापितः कालभैरवस्य प्रतिमा
रीवानगरम्, ३१ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य विन्ध्य–प्रदेशः प्राचीन–मन्दिरैः समृद्धं क्षेत्रम् अस्ति। विन्ध्य–बुन्देलखण्डयोः विभिन्नेषु भागेषु शैव–कालीनं, राजपूत–कालीनं तथा कल्चुरि–कालीनं स्थापत्यम् प्रतिनिधिं कुर्वन्ती अनेकानि शैव–जैन–मन्दिराणि
गुढ़ में आज लोकार्पित होने वाला कालभैरव मंदिर


रीवानगरम्, ३१ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य विन्ध्य–प्रदेशः प्राचीन–मन्दिरैः समृद्धं क्षेत्रम् अस्ति। विन्ध्य–बुन्देलखण्डयोः विभिन्नेषु भागेषु शैव–कालीनं, राजपूत–कालीनं तथा कल्चुरि–कालीनं स्थापत्यम् प्रतिनिधिं कुर्वन्ती अनेकानि शैव–जैन–मन्दिराणि दृश्यन्ते। प्राचीनतमानि शिव–मन्दिराणि अपि एतेष्वेव क्षेत्रेषु स्थितानि।

विन्ध्यस्य धरा प्राचीनैः स्तूपैः, मन्दिरैः, मठैः तथा प्रतिमाभिः समृद्धा अस्ति। प्राचीन–मूर्तिकला–वैशिष्ट्यस्य अद्भुतं प्रमाणं गुढक्षेत्रस्य समीपे खामडीह–ग्रामे स्थितस्य भैरवनाथस्य प्रतिमाविशेषः अस्ति। एषा प्रतिमा भगवत: शिवस्य उग्र–रूपस्य कालभैरवस्य देशस्य विशालतमासु प्रतिमासु एकेति परिगण्यते।

अद्भुतायां शयन–मुद्रायां स्थिताया: अस्याः प्रतिमायाः सौन्दर्यं विलक्षणं दृश्यते। प्रतिमायाः दीर्घता ८.५ मीटर, विस्तारः ३.७ मीटर च अस्ति। सा प्रतिमा बहुवर्षाणि यावत् विन्ध्यस्य प्रमुखायाः कैमोर–पर्वत–मालायाः अङ्के मुक्ताकाशे स्थिताऽऽसीत्। शासनस्य एलएडी–योजनया एतां परितः द्वितलं भव्यं मन्दिरं निर्मितम्। मन्दिरेण सह सामुदायिक–भवनं, अष्टौ आपणाः तथा अन्यानि निर्माण–कार्याणि अपि सम्पन्नानि। अद्य शनिवासरे आयोजिते भव्ये समारोहे मुख्यमन्त्री डॉ.मोहनयादवः अस्य मन्दिरस्य लोकार्पणं करिष्यति।जनसम्पर्क–अधिकारी उमेश–तिवारी सूचना प्रयच्छन् अवदत् यत् भैरवनाथस्य विशाल–प्रतिमायाः निर्माणं सम्भवतः दशम–एकादश–शताब्द्योः मध्ये कल्चुरि–काले कृतम्। शयन–मुद्रायाम् एषा प्रतिमा एकेनैव शिलाखण्डेन उत्कीर्णा। कृष्ण–वर्ण–बलुआ–शिलया निर्मिता एषा मूर्तिः अद्भुता अस्ति। भैरवनाथस्य मुखे रौद्र–भावः सन्नपि असीम–शान्तेः भावः अपि दृश्यते। एषा प्रतिमा चतुर्भुजा अंकिता अस्ति। प्रतिमायाः दक्षिणे ऊर्ध्वहस्ते सृष्टि–पालन–संहारयोः प्रतीकं त्रिशूलं विद्यते। अधः–दक्षिण–हस्ते ध्यान–भक्ति–प्रतीका रुद्राक्ष–माला अस्ति। ऊर्ध्व–वाम–हस्ते त्रिशीर्ष–सर्पाः लिप्ताः सन्ति, ये त्रिशक्तेः प्रतीकाः सन्ति।

भैरव–प्रतिमायाः वाम–हस्ते बीजानि फलानि च दृश्यन्ते—एतानि उर्वरता–सृजन–शक्त्योः प्रतीकानि। अस्याः आकर्षकायाः भव्यतायाश्च प्रतिमायाः शिरसि भव्य: मुकुटः सुशोभते। भैरवनाथः कुण्डलैः, बहुभिः मालाभि: तथा यज्ञोपवीतेन अलङ्कृतः अस्ति। प्रतिमां चतस्रः परिचारिकाः परिवेष्टयन्ति—तासु द्वे उपविष्ट–मुद्रायां, द्वे तु स्थित–मुद्रायां सन्ति। एषा प्रतिमा सहस्रशः जनानां श्रद्धा–केन्द्रम् अस्ति। रोग–निवारणाय, भय–नाशाय तथा नकारात्मक–शक्तिभ्यः रक्षणाय जनाः अत्र पूजार्थम् आगच्छन्ति। मन्दिरं परितः पाषाणमयः ढालू–प्रदेशः अस्ति। एतत् मन्दिरं पर्यटन–स्थलरूपेण विकसितं क्रियमाणम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता