Enter your Email Address to subscribe to our newsletters

भाजपा प्रदेश अध्यक्षो बैतूल जिला कार्यालये वीबी जी-रामजी योजनाम् आधृत्य कार्यशालां संबोधितवान्।
बैतूलम्/भोपालम्, 31 जनवरीमासः (हि.स.)।
भारतीयजनतापक्षस्य देशाध्यक्षः हेमन्तखण्डेलवालः शनिवासरे बैतूलभाजपाजिलाकार्यालये वीबीजीरामजीयोजनाविषये आयोजितायां जिलाकार्यशालायां सम्बोधितवान्। अस्मिन् अवसरेय सः अवदत् यत् कांग्रेसपक्षः अस्याः योजनायाः विषये समाजे मिथ्याप्रचारं करोति। अस्याः योजनायाः नाम पूर्वं नरेगा आसीत्। अनन्तरं कांग्रेसपक्षेण तत् परिवर्त्य महात्मागान्धीनरेगा इति कृतम्। कांग्रेसपक्षः केवलम् अस्याः योजनायाः एव न अपि तु अन्येषां अपि अनेकानां राष्ट्रिययोजनानां नामानि पूर्वमेव परिवर्तितवान्।य प्रधानमन्त्री नरेन्द्रमोदी वीबीजीरामजीयोजनाया माध्यमेन महात्मागान्धिनः स्वप्नान् साकारान् करोति। सः अवदत् यत् पूर्वं अस्यां योजनायां श्रमिकेभ्यः शतदिनपर्यन्तं रोजगारस्य प्रत्याभूतिरेव आसीत्। अधुना तु पञ्चविंशत्यधिकशतदिनपर्यन्तं रोजगारस्य प्रत्याभूतिः प्रदत्ता अस्ति। यदि रोजगारः न लभ्यते तर्हि बेरोजगारभत्ताप्रदानस्य अपि नूतनकानूने प्रावधानं विद्यते।
भाजपायाः प्रदेशाध्यक्षः अवदत् यत् महात्मागान्धिना भारतस्य स्वच्छतायाः स्वप्नं दृष्टम्। स्वातन्त्र्योत्तरकाले कांग्रेसपक्षः दीर्घकालं केन्द्रे राज्येषु च सत्तायां स्थितः आसीत्। तथापि स्वच्छतायाः विषये किमपि विशेषं कार्यं न कृतम्। सन् द्विसहस्रचतुर्दशे प्रधानमन्त्री मोदिना सेवाकार्यैः सह देशव्यापिनी स्वच्छतायाः जागरणा आरब्धा। अद्य भारतदेशे स्वच्छता जनान्दोलनरूपेण परिणता अस्ति। प्रधानमन्त्री मोदिना महात्मागान्धिनः स्वच्छतासंकल्पः पूर्णीकृतः।
सः अवदत् यत् भाजपाकार्यकर्तारः ग्रामे ग्रामे गत्वा जनान् बोधयन्तु यत् वीबीजीरामजीयोजनायां श्रमिकाणां हितानि अधिकं सुरक्षितानि कृतानि सन्ति। कांग्रेसपक्षः कदापि महात्मागान्धिनः विचाराणां सम्मानं न कृतवान्। हेमन्तखण्डेलवालः अवदत् यत् महात्मागान्धिना खादीस्वदेशीयोः नारा प्रदत्तः। किन्तु स्वातन्त्र्योत्तरकाले कांग्रेसपक्षेण विदेशीयवस्तूनां प्रोत्साहनं कृतम्। कांग्रेसकालॆ विदेशीयवस्तूनां उपयोगकर्तारः सम्मानं प्राप्नुवन्ति स्म। अधुना तु खादीस्वदेशीयोः सम्मानः पुनः प्रतिष्ठितः।
गान्धीजी उक्तवान् यत् भारतं ग्रामेषु वसति। यदि भारतं विकसितं कर्तुं इच्छामः तर्हि प्रथमं ग्रामाणां विकासः आवश्यकः। प्रधानमन्त्री नरेन्द्रमोदी वीबीजीरामजीयोजनाया माध्यमेन ग्रामाणां सम्यग्विकासं करिष्यति। अधुना कृषिकर्मसु अपि कृषकाणां कृते श्रमिकाः सुलभतया उपलब्धा भविष्यन्ति।
---------------
हिन्दुस्थान समाचार