Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३१ जनवरीमासः (हि.स.)। मध्यप्रदेशे राज्य–शासनस्य ऊर्जा–विभागेन बकाया–विद्युत्–उपभोक्तॄणां कृते प्रवर्तितायां समाधान–योजनायाम् त्रिमासात् प्राचीनानां अवशिष्ट–विद्युत्व्ययानां सन्दर्भे एकमुश्तं मूल–अवशिष्ट–राशेः समर्पणे सति विद्युत्व्यय–क्षमा शत–प्रतिशतपर्यन्तं प्रदीयते। अस्याः शत–प्रतिशत–विद्युत्व्यय–क्षमाया: अद्य (३१ जनवरीमासे) अन्तिमा तिथिः अस्ति।
मध्यप्रदेश–पश्चिम–क्षेत्र–विद्युत्–वितरण–निर्माण्याः प्रबन्ध–निदेशकः अनूप–कुमार–सिंहः अवदत् यत् उपभोक्तारः वितरण–केन्द्रे अथवा अन्तर्जाल–विकल्पेन संस्था–पटले mpwz.co.in इत्यत्र गत्वा अस्याः सुविधायाः लाभं प्राप्य शत–प्रतिशतं विद्युत्व्यय–क्षमां प्राप्तुं शक्नुवन्ति। प्रबन्ध–निदेशकः सिंहः अवशिष्टव्ययजनान् पात्रान् विद्युत्–उपभोक्तॄन् ३१ जनवरीपर्यन्तं शत–प्रतिशतं विद्युत्व्यय–क्षमाया: लाभं ग्रहीतुम् अपि आहूतवान्। ततः परं फरवरी–मासे विद्युत्व्यय–क्षमाया: राशि न्यूनतरा भविष्यति।
सः अवदत् यत् अधुना यावत् प्रायः पञ्च–लक्ष–षष्टि–सहस्राणि उपभोक्तारः समाधान–योजनायां पञ्जीकरणं कृत्वा शिथिलता–लाभं प्राप्तवन्तः। एतेभ्यः उपभोक्तृभ्यः २३ कोटि–रूप्यकाणां शिथिलता प्रदत्ता, अपरं च निर्माण्यै १३९ कोटि–रूप्यकाणां राजस्वं प्राप्तम्। समाधान–योजनायाम् अद्यावधि इन्दौर–जनपदे ६४ सहस्रम् उपभोक्तारः, रतलाम–जनपदे ५८ सहस्रं, उज्जैन–जनपदे ५६ सहस्रं–५०० उपभोक्तारः, खरगोन–जनपदे ५३ सहस्रम् उपभोक्तारः लाभान्विताः। अन्येषु जनपदेषु लाभान्वितानाम् उपभोक्तॄणां संख्या १७ सहस्रात् ४५ सहस्रपर्यन्तं वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता