मध्यप्रदेशस्य मुख्यमन्त्री अद्य रीवा–जनपदस्य प्रवासे, गुढक्षेत्रे भैरवनाथ–मन्दिरस्य दर्शनं करिष्यति
भोपालनगरम्, ३१ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य शनिवासरे रीवा–जनपदस्य एकदिवसीय–प्रवासे भविष्यति। सः अपराह्णे प्रायः एकवादने गुढ़–विधानसभा–क्षेत्रे आयोजिते समारोहे भैरवनाथ–मन्दिरस्य लोकार्पणं करिष्यति। जनसम्पर्क–अधिकार
सीएम मोहन यादव (फाइल फोटो)


भोपालनगरम्, ३१ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य शनिवासरे रीवा–जनपदस्य एकदिवसीय–प्रवासे भविष्यति। सः अपराह्णे प्रायः एकवादने गुढ़–विधानसभा–क्षेत्रे आयोजिते समारोहे भैरवनाथ–मन्दिरस्य लोकार्पणं करिष्यति।

जनसम्पर्क–अधिकारी उमेश–तिवारी सूचनां प्रयच्छन् अवदत् यत् गुढक्षेत्रस्य समीपे खामडीह–ग्रामे भैरवस्य विशालः प्राचीनः प्रतिमाविशेषः अस्ति। एषा प्रतिमा दुर्लभ–शयन–मुद्रायां प्रतिष्ठिता वर्तते। स्थापत्य–दृष्ट्या अस्याः निर्माणं प्रायः दशम–शताब्द्यां कृतम् इति मन्यते। प्रतिमा बहुवर्षाणि यावत् मुक्ताकाशस्य अधः स्थिताऽऽसीत्। शासनस्य एलएडी–योजनान्तर्गतं प्राचीन–मन्दिरस्य जीर्णोद्धारः तथा अन्यानि निर्माण–कार्याणि अपि सम्पन्नानि। विशाल–भैरव–प्रतिमां परितः द्वितल–मन्दिरस्य निर्माण–कार्यं कृतम्। अस्या: परियोजनायाः व्ययः १८० लक्ष–रूप्यकाणि सन्ति। एतत् मन्दिरं सहस्रशः जनानां श्रद्धा–केन्द्ररूपेण प्रसिद्धम् अस्ति।

सः अवदत् यत् मुख्यमन्त्री डॉ.यादवः मन्दिरं प्राप्य भगवत: भैरवनाथस्य पूजां करिष्यति तथा मन्दिरे ध्वजम् आरोहयिष्यति। ततः सः विशालां जनसभां सम्बोधयिष्यति। समारोहस्य अध्यक्षता उपमुख्यमन्त्री राजेन्द्र–शुक्लः करिष्यति। विशिष्ट–अतिथिरूपेण सांसदः जनार्दन–मिश्रः, विधायकाः नागेन्द्र–सिंहः, दिव्यराज–सिंहः, सिद्धार्थ–तिवारी, नरेन्द्र–प्रजापतिः, जिला–पञ्चायत–अध्यक्ष्या नीता–कोलः तथा पूर्व–महापौरः एवं भाजपा–अध्यक्षः वीरेन्द्र–गुप्तः च सहभागिन: भविष्यन्ति।

अस्मिन् समारोहे मुख्यमन्त्री १७ कोटि १३ लक्ष–रूप्यक–व्ययेन सम्पन्नानां चतुर्णां निर्माण–कार्याणां लोकार्पणं करिष्यति। अपरं च शासनस्य विविध–योजनाभ्यः लाभान्वितानां हितग्राहिणां कृते हितलाभ–वितरणम् अपि करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता