Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 31 जनवरीमासः (हि.स.)। उत्तराखण्डराज्ये पुष्करसिंहधामिना -मुख्यमन्त्रिणा सञ्चालितस्य “जन-जनस्य सरकारः, जन-जनस्य द्वारम्” इति कार्यक्रमस्य अन्तर्गतं शनिवासरे षोडश शिविराणि आयोजितानि। तेषु शिविरेषु षट् सहस्राणि अष्टशतानि विंशतिश्च (६,८२०) नागरिकाः प्रत्यक्षरूपेण शासकीय-योजनानां सेवाश्च लाभं प्राप्तवन्तः। एतां सूचनां सूचना-विभागेन प्रदत्ता।तत्र उक्तं यत् राज्ये अद्यावधि पञ्चशतानि एकचत्वारिंशत् (५४१) शिविराणि सफलतया आयोजितानि सन्ति, येषां माध्यमेन चतुर्लक्षाः अष्टाविंशतिसहस्रं एकशतं त्र्यशीतिः (४,२८,१८३) नागरिकाः सेवाः समाधानानि च लाभान् च प्राप्तवन्तः।
मुख्यमन्त्री धामी अवदत् यत् अस्य अभियानस्य उद्देश्यं केवलं योजनानां निर्माणं न, अपि तु प्रत्येकं पात्रं व्यक्तिं प्रति तेषां लाभस्य सुनिश्चित-प्राप्तिः अस्ति। अस्य अभियानस्य माध्यमेन जनसमस्यानां त्वरितः समाधानः भवति, तेन सह शासनव्यवस्थायां सहभागिता, पारदर्शिता, उत्तरदायित्वं च वर्धते। एषः अभियानः उत्तराखण्डराज्ये सुशासनस्य जनकल्याणस्य च सुदृढः आधारः इव उद्भूतः अस्ति।---------------
हिन्दुस्थान समाचार