Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०४ जनवरीमासः (हि.स.)। भारतीय–जनता–दलस्य (भा.ज.पा.) प्रदेश–प्रभारी डॉ.महेन्द्रसिंहः अद्य आरभ्य द्विदिवसीयं प्रदेश–प्रवासं करिष्यती। सः ०४ जनवरी दिनाङ्के मुरैना–जनपदे, भिण्ड–नगरे तथा ग्वालियर–नगरे च प्रवासकाले विविधेषु जनपदेषु आयोज्यमानानां विधानसभा–सभानां सम्बोधनं करिष्यति। ०५ जनवरी दिनाङ्के तु ग्वालियर–ग्रामीण–जनपदे प्रवासं कृत्वा तत्रापि विधानसभानां सभा: सम्बोधयिष्यति।
भा.ज.पा. मीडिया–प्रभारी आशीष–उषा–अग्रवालः सूचनां दत्त्वा अवदत् यत् रविवासरे, ०४ जनवरी दिनाङ्के डॉ.महेन्द्र–सिंहः प्रातः १०.३० वादने दिमनी–विधानसभायाम्, प्रातः ११.३० वादने अम्बाह–विधानसभायाम्, तथा अपराह्णे २ वादने मेहगाव–नगरे आयोजितासु मेहगाव–गोहद–विधानसभयोः सभासु सम्बोधनं करिष्यति। तदनन्तरं सायं ४ वादने भिण्ड–नगरम् आगत्य भिण्ड–अटेर–लहार–विधानसभानां सभा: सम्बोधयिष्यति। सायं ७ वादने ग्वालियर–नगरे च ग्वालियर–पूर्व–ग्वालियर–दक्षिण–विधानसभानां सभा: सम्बोधयिष्यति।
अग्रिमे दिने, सोमवासरे ०५ जनवरी, प्रातः ११ वादने ग्वालियर–ग्रामीण–जनपदे स्थितासु डबरा–भितरवार–ग्वालियर–ग्रामीण–विधानसभानां सभा: अपि डॉ.महेन्द्र–सिंहः सम्बोधयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता