Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 5 जनवरीमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा कार्बीसमुदायस्य प्रमुखस्य परम्परागतधार्मिकपर्वणः “रोंग्केर् कार्कली” इत्यस्य पावनावसरे कार्बीभ्रातृभगिनीन् प्रति हृदयपूर्वकाः शुभाशंसाः दत्तवन्तः।
मुख्यमन्त्रिणा अद्य स्वस्य सामाजिकमाध्यमसंदेशे उक्तम् यत् शीतकाले समारोह्यते “रोंग्केर् कार्कली” इति कार्बीजनजातेः एकं महत्वपूर्णं पारम्परिकं उत्सवम् अस्ति, यस्य मुख्योद्देशः शुभफसलप्राप्त्यर्थं ग्रामवासिनां कल्याणाय च स्थानीयदेवीदेवताः आराधयितुं तथा अमङ्गलम् अपाकर्तुं भवति।
डॉ. सरमेनैतत्पर्व आस्था–ऐक्य–समृद्धीनां प्रतीकं इति निर्दिश्य एतादृशीं प्रार्थनां कृतवतः यत् अयं उत्सवः सर्वेषां जीवनानि सुखशान्तिसौहार्दसमग्रकल्याणानि च ददातु। अस्य पवित्रदिने सर्वेषां कुशलमङ्गलाय अपि ईश्वरं प्रति प्रार्थना कृता।
हिन्दुस्थान समाचार