Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य पूर्व–मुख्यमन्त्रीं, राजस्थानस्य पूर्व–राज्यपालं, पद्मविभूषण–सम्मानितं प्रखरं राष्ट्रवादिनं नेतारं स्वर्गीयं कल्याण–सिंहं ‘बाबूजी’ इति विख्यातं तस्य जयन्त्यवसरे भारतीय–जनता–दलस्य नेतृभिः भावपूर्णा श्रद्धाञ्जलिः अर्पिता। राममन्दिरान्दोलनस्य महत्त्वपूर्णे योगदाने, सुशासनस्य प्रतीकत्वे च तं स्मृत्वा नेतृभिः सादरं नमनं कृतम्। कल्याण–सिंहस्य जन्म ०५ जनवरी १९३२ तमे वर्षे अभवत्। सः राममन्दिरान्दोलनस्य प्रमुखः नेता आसीत् तथा स्वसिद्धान्तानां रक्षणार्थं सत्तात्यागाय अपि प्रसिद्धः आसीत्।केन्द्रीय–गृहमन्त्री अमित–शाहः ‘एक्स'माध्यमे अवदत् यत् प्रखर–राष्ट्रवादी–नेतुः श्रद्धेयस्य कल्याण–सिंहस्य जयन्त्यां तस्मै सादरं नमनम्। उत्तरप्रदेशे अपराध–मुक्त–शासनस्य प्रतीकः कल्याण–सिंहः देशस्य परम्परां सांस्कृतिक–स्वाभिमानं च रक्षितुं कदापि स्वसिद्धान्तान् न त्यक्तवान्, अपि तु स्ववैचारिक–मूल्येषु अटल: सन् सत्तां त्यक्तवान्। लोककल्याणे जनसेवायां च तस्य कार्याणि अद्यापि स्मरणीयानि सन्ति।मार्ग–परिवहन–राजमार्ग–मन्त्री नितिनगडकरीः तं भा.ज.पा.दलस्य वरिष्ठ–नेतारम् उत्तरप्रदेशस्य पूर्व–मुख्यमन्त्रीं च स्मृत्वा विनम्रम् अभिवादनं कृतवान्।भा.ज.पा.दलस्य राष्ट्रीय–अध्यक्षः जे.पी.नड्डा अवदत् यत् श्रीराम–मन्दिर–आन्दोलनस्य अग्रदूतं, वरिष्ठ–नेतारं, राजस्थानस्य पूर्व–राज्यपालम्, उत्तरप्रदेशस्य पूर्व–मुख्यमन्त्रीं, पद्मविभूषण–सम्मानितं श्रद्धेयम् कल्याण–सिंहं ‘बाबूजी’ इति ख्यातं तस्य जयन्त्यां सः नमनं करोति। बाबूजी निर्धनानां पृष्ठवर्गाणां च उत्थानार्थं स्वजीवनं समर्पितवान्। अयोध्यायां रामलला–जन्मभूमि–आन्दोलनाय तस्य योगदानं प्रणम्यं वर्तते। जनसेवायां संघटन–विस्तारे च तस्य प्रयासाः कोटिशः कार्यकर्तॄणां कृते प्रेरणास्रोतांसि सन्ति।भा.ज.पा.दलस्य राष्ट्रीय–कार्यकारी–अध्यक्षः नितिननबीनः तं भारतीय–राजनीत्याः शिखर–पुरुषं, प्रखरं राष्ट्रवादिनं, परम–रामभक्तं च निर्दिश्य कोटिश: नमनं कृतवान्। सः अवदत् यत् तस्य आदर्श–जीवनं राष्ट्रसेवायां प्रतिबद्धतां निरन्तरं सुदृढीकर्तुं प्रेरयिष्यति।दिल्ली–मुख्यमन्त्री रेखा–गुप्ता बाबूजीं भारतीय–राजनीत्यां शुचितायाः सशक्त–स्तम्भं कार्यकर्तॄणां प्रेरणास्रोत: च कथयित्वा नमनं कृतवती। सा अवदत् यत् बाबूजी-इत्यस्य जीवनं वैचारिक–निष्ठायाः सिद्धान्तप्रियतायाः प्रभावी–प्रशासनस्य च अनुपममुदाहरणम् आसीत्। श्रीराम–मन्दिर–निर्माणार्थं सत्तात्यागः तस्य अद्वितीय–समर्पणस्य राष्ट्रधर्मे दृढ–आस्थायाश्च प्रतीकः अस्ति। अन्त्योदय–विचारे, ‘राष्ट्रं प्रथमम्’ इति भावे च तेन विशेषं बलं दत्तम्।उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः लखनऊ–नगरे कल्याण–सिंह–‘बाबूजी’–चित्रे पुष्पार्पणं कृत्वा श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् श्रद्धेय–बाबूजी-इत्यस्य कार्यकालः सुशासनं विकासं राष्ट्रवादी–लक्ष्यं च नूतन–उच्चतां नीतवान्, यत् सदा स्मरणीयं भविष्यति। स्वनाम्ना उत्तरप्रदेशस्य कल्याणं निरन्तरं सार्थकं कृतवान् इति तेनोक्तम्।मध्यप्रदेश–मुख्यमन्त्री डॉ.मोहन–यादवः कल्याणसिंहं देशस्य प्रगतये, सुशासनाय, दरिद्र–कल्याणाय च स्वजीवनं समर्पितवन्त: कथयित्वा श्रीराम–मन्दिरार्थं तस्य अविस्मरणीयं योगदानं स्मृतवान्।उत्तराखण्ड–मुख्यमन्त्री पुष्कर–सिंह–धामी श्रीराम–जन्मभूमि–आन्दोलनं निर्णायक–दिशं नीतवन्तं सनातन–संस्कृतेः प्रहरिणं कल्याण–सिंहं ‘बाबूजी’ इति स्मृतवान्। तेनोक्तं यत् तस्य ओजस्विनः विचाराः समाजं निरन्तरं मार्गदर्शनं करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता